इको गुणवृद्धी
भूमिका– शाब्दिककेसरिणा भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे इदं सूत्रं विलसति।
संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥ इति
षट्प्रकारकेषु सूत्रेषु इदं परिभाषासूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् पदद्वयं वर्तते। इकः गुणवृद्धी इति पदच्छेदः। इकः इति
षष्ठ्यन्तशब्दः प्रथमैकवचनान्तः। गुणश्च वृद्धिश्चेति गुणवृद्धी इति
द्वन्द्वसमासनिष्पन्नं प्रथमाद्विवचनान्तं पदम्। “वृद्धिरादैच्” इति सूत्रात् वृद्धिरिति पदम् “अदेङ्गुणः” इति सूत्रात् गुणः इति पदं च अनुवर्तते।इतिशब्दः अध्याह्रियते। यत्र
विधीयेते तत्रेति इत्यपि अध्याहरणीयम्। ततः गुणः वृद्धिरित्युच्चार्य यत्र
गुणवृद्धी विधीयेते तत्र इकः इति षष्ठ्यन्तं पदमुपतिष्ठते इति सूत्रस्य
सामान्यार्थः। तदेव उक्तं दीक्षितेन सिद्धान्तकौमुद्यां –“गुणवृद्धिशब्दाभ्यां
यत्र गुणवृद्धी विधीयेते तत्र ‘इकः’
इति षष्ठ्यन्तं पदमुपतिष्ठते” इति।
सोदाहरणं व्याख्यानम्– अनियमे नियमकारिणी हि परिभाषा। तथाहि “मिदेर्गुणः” इति सूत्रेण गुणपदमुच्चार्य गुणो विहितः इत्यतः तस्मिन् सूत्रे इकः इति
पदमुपतिष्ठते। ततः मिदेः इकः गुणः भवति इति सूत्रार्थः भवति। ततश्च मिद् य ति इति
अवस्थायां मिदेर्गुणः इति सूत्रेण इकारस्य स्थाने गुणे मेद्यति इति इष्टं रूपं
सिद्ध्यति। अन्यथा मकारस्य स्थाने स्यात् उत इकारस्य स्थाने आहोस्विद् दकारस्य इति
अनियमः स्यात्। एवं “मृजेर्वृद्धिः”
इति सूत्रेण वृद्धिपदमुच्चार्य वृद्धिः विहिता इत्यतः तस्मिन् सूत्रे इकः इति
पदमुपतिष्ठते। ततः मृजेः इकः वृद्धिः भवति इति सूत्रार्थः भवति। ततश्च मृज् ति इति
अवस्थायां “मृजेर्वृद्धिः” इति सूत्रेण
ऋकारस्य स्थाने वृद्धौ रपरत्वे प्रक्रियया मार्ष्टि इति इष्टं रूपं सिद्ध्यति।
अन्यथा अत्रापि मकारस्य स्थाने स्यात् उतऋकारस्य स्थाने आहोस्वित् जकारस्य इति
अनियमप्रसङ्गः।
गुणवृद्धिशब्दाभ्यां यत्र विधानं
तत्रैव परिभाषा प्रवर्तते इति व्याख्यानात् “त्यदादीनामः” इत्यत्र गुणपदं “वृद्धिर्यस्याचाम्...” इत्यत्र वृद्धिपदं न उपतिष्ठते इति शम्।
No comments:
Post a Comment