A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Friday, March 19, 2021

Udyogprasamsa | Hitopadesh | Shlok Vyakhya

यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।
तथा पुरुषकारेण विना दैवं न सिध्यति॥ (हितोपदेशः- ३२)

UdyogprasamsaHitopadeshNarayanasharmaShlokVyakhyaChanakyaniti

भूमिका– नारायणशर्मणा विरचितस्य हितोपदेशाख्यस्य कथाग्रन्थस्य प्रस्तावनायाम् अयं श्लोको विद्यते।

अन्वयार्थः– यथा – येन प्रकारेण हि एकेन – एकलेन चक्रेण – रथाङ्गेन रथस्य गतिः – गमनं न भवति – न जायते तथा – तेन प्रकारेण पुरुषकारेण – पौरुषेण विना – अन्तरेण दैवं – भाग्यं न सिध्यति – इष्टफलं न ददाति इत्यन्वयार्थः।

भावार्थः– प्रस्तुतश्लोके दृष्टान्तमुखेन उद्योगिनाम् उद्योगं स्तौति नारायणशर्मा। यथा एकेन चक्रेण रथः न अग्रे सरति तथा केवलेन भाग्येन इष्टफललाभो न भवति। प्रयत्नः, भाग्यं च द्वौ रथचक्रौ इव। भाग्ये स्थितेऽपि उद्यमेनैव फललाभः भवति, न हि निरुद्यमस्य फलसिद्धिः। अत एव लोके प्रवादः– भाग्यं वीरमेव वरयति इति। तस्मात् इष्टफललाभाय राजकुमारैः अस्माभिः च नित्यं उद्यमशीलैः भाव्यम् इति तात्पर्यम्।

व्याकरणविमर्शः– पुरुषकारः – पुरुषं करोति इति पुरुषकारः, तेन पुरुषकारेण इति उपपदतत्पुरुषः। देवाद् आगतम् इति दैवम्।

छन्दः– अत्र अनुष्टुप् छन्दः।

No comments:

Post a Comment