Short Question of Laghusiddhantakaumudi | लघुसिद्धान्तकौमुद्याः लघुप्रश्नाः
संज्ञाप्रकरणम्
१. लघुसिद्धान्तकौमुद्याः मङ्गलश्लोकं लिखत।
नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्।
पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्।। इति।
२. माहेश्वरसूत्राणि लिखत।
अइउण्॥१॥ ऋऌक्॥२॥ एओङ्॥३॥ ऐऔच्॥४॥ हयवरट्॥५॥ लण्॥६॥ ञमङणनम्॥७॥ झभञ्॥८॥ घढधष्॥९॥ जबगडदश्॥१०॥ खफछठथचटतव्॥११॥ कपय्॥१२॥ शषसर्॥१३॥ हल्॥१४॥
३. उच्चारणस्थानानां विवरणं देयम्।
अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानाम् ओष्ठौ। ञमङणानानां नासिका च। एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्ठम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकानुस्वारस्य। इति वर्णानाम् उच्चारणस्थानानि।
४. आभ्यन्तरप्रयत्नस्य परिचयो देयः।
यत्नो द्विधा आभ्यन्तरः बाह्यः च। आभ्यन्तरः यत्नः पञ्चधा स्पृष्ट-ईषत्स्पृष्ट-ईषद्विवृत-विवृत-संवृतभेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्, ईषत्स्पृष्टम् अन्तःस्थानाम्, ईषद्विवृतम् ऊष्मणाम्, विवृतं स्वराणाम्, ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्, प्रक्रियादशायां तु विवृतमेव। तत्र च कादयो मावसानाः स्पर्शाः, यणः अन्तःस्थाः, शलः ऊष्माणः, अचः स्वराः।
५. बाह्ययत्नस्य परिचयः प्रदेयः।
यत्नो द्विधा आभ्यन्तरो बाह्यश्च। तत्र बाह्ययत्नः एकादशधा – विवारः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरितश्च। तत्र खरः(वर्गाणां प्रथमद्वितीयौ शषसाः) विवाराः श्वासाः अघोषाश्च, हशः(वर्गाणां तृतीयचतुर्थपञ्चमाः अन्तःस्थाः हः) संवाराः नादाः घोषाश्च, वर्गाणां प्रथमतृतीयपञ्चमाः यणः(यवरलाः) च अल्पप्राणाः, वर्गाणां द्वितीयचतुर्थौ शलः(शषसहाः) च महाप्राणाः। अचः(स्वरवर्णाः) उदात्ताः अनुदात्ताः स्वरिताश्च।
६. ३/४/५ इति अष्टाध्यायीसूत्रक्रमः किं बोधयति?
तृतीयाध्यायस्य चतुर्थपादस्य पञ्चमं सूत्रम् इति बोधयति।
७. सूत्रलक्षणं लिखत।
अल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥ इति॥
८. सूत्रं कतिविधम्? कानि च तानि?
सूत्रं षड्विधम्। संज्ञा, परिभाषा, विधिः, नियमः, अतिदेशः, अधिकारः चेति।
९. कः उपदेशः?
उपदेशः आद्योच्चारणम्। आद्यानाम् पाणिनिकात्यायनपतञ्जलीनाम् उच्चारणम् उपदेशः।
१०. हलः इत्संज्ञाविधायकं सूत्रं किम्? तस्य अर्थं लिखत।
हलः इत्संज्ञाविधायकं सूत्रं हलन्त्यम् इति। उपदेशे अन्त्यं हल् इत् स्यात् इति सूत्रार्थः।
११. अचः इत्संज्ञाविधायकं सूत्रं किम्? तस्य अर्थं लिखत।
अचः इत्संज्ञाविधायकं सूत्रम् उपदेशेऽजनुनासिक इत् इति। उपदेशे अनुनासिकः अच् इत्संज्ञः स्यात् इति सूत्रार्थः।
१२. भाष्यलक्षणं लिखत।
सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः॥
१३. वार्तिकलक्षणं विलिख्य वार्तिकम् एकम् उदाहरत।
उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते।
तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञा विचक्षणाः॥ इति।
ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम् इति वार्तिकस्य उदाहरणम्।
१४. सवर्णसंज्ञाविधायकं सूत्रं किम्? तस्य अर्थं च लिखत।
सवर्णसंज्ञाविधायकं सूत्रं हि तुल्यास्यप्रयत्नं सवर्णम्। तस्य अर्थः तावत् – ताल्वादिस्थानम् आभ्यन्तरप्रयत्नश्च इत्येतद् द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् इति।
१५. अनुनासिकसंज्ञाविधायकं सूत्रं किम्? तस्य अर्थं च लिखत।
अनुनासिकसंज्ञाविधायकं सूत्रं हि मुखनासिकावचनोऽनुनासिकः। तस्य अर्थः तावत् – मुखसहितनासिकया उच्चार्यमाणो वर्णः अनुनासिकसंज्ञः स्यात् इति।
१६. संहितासंज्ञाविधायकं सूत्रं किम्? तस्य अर्थं च लिखत।
संहितासंज्ञाविधायकं सूत्रं हि परः सन्निकर्षः संहिता। तस्य अर्थः तावत् – वर्णानाम् अतिशयितः सन्निधिः संहितासंज्ञः स्यात्।
१७. ‘शिक्षा’ इत्यत्र केन सूत्रेण कस्य संयोगसंज्ञा?
‘शिक्षा’ इत्यत्र ‘हलोऽनन्तराः संयोगः’ इति सूत्रेण ककार-षकारयोः संयोगसंज्ञा।
१८. पदसंज्ञाविधायकं सूत्रं किम्? तस्य अर्थं च लिखत।
पदसंज्ञाविधायकं सूत्रं हि – सुप्तिङन्तं पदम्। तस्य अर्थः तावत् – सुबन्तं तिङन्तञ्च पदसंज्ञं स्यात्।
अच्सन्धिप्रकरणम्
१. ‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ इति सूत्रस्य अर्थं लिखत।
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम् इति सूत्रार्थः।
२. के अन्तरतमप्रयोजकाः?
स्थान-अर्थ-गुण-प्रमाणानि अन्तरतमप्रयोजकानि।
३. गुणसंज्ञा केन विधीयते? के च गुणाः?
‘अदेङ्गुणः’ इति सूत्रेण गुणसंज्ञा विधीयते। अ, ए, ओ इति एते वर्णाः गुणाः।
४. गुणसन्धिः केन सूत्रेण विधीयते? तस्य अर्थं लिखत।
‘आद्गुणः’ इति सूत्रेण गुणसन्धिः विधीयते। अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् इति तस्य अर्थः।
५. तपरशब्दस्य कोऽर्थः?
तपरशब्दस्य अर्थद्वयं विद्यते – तात्परः तपरः इत्येकम्, तः परो यस्मात् स तपरः इति अपरम्।
६. वृद्धिसंज्ञा केन विधीयते? के च वृद्धिवर्णाः?
‘वृद्धिरादैच्’ इति सूत्रेण वृद्धिसंज्ञा विधीयते। आ, ऐ, औ इति एते वृद्धिवर्णाः।
७. वृद्धिसन्धिः केन विधीयते? तस्य सूत्रस्य अर्थं च लिखत।
‘वृद्धिरेचि’ इति सूत्रेण वृद्धिसन्धिः विधीयते। आद् एचि परे वृद्धिः एकादेशः स्यात् इति सूत्रार्थः।
८. ‘कृष्णर्द्धिः’ इत्यत्र रपरत्वं केन विधीयते? ऋ इति कतीनां संज्ञा?
‘उरण् रपरः’ इति सूत्रेण रपरत्वं विधीयते। ऋ इति त्रिंशतः संज्ञा।
९. कति उपसर्गाः? के च ते?
द्वाविंशतिः उपसर्गाः। ते हि – प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उप इति।
१०. टिसंज्ञाविधायकं सूत्रं किम्? ‘मरुत्’ इत्यत्र टिभागः कः?
‘अचोऽन्त्यादि टि’ इति टिसंज्ञाविधायकं सूत्रम्। ‘मरुत्’ इत्यत्र ‘उत्’ इति टिभागः।
११. ‘वृद्धिरेचि’ इति कस्य अपवादः? अस्य सूत्रस्य उदाहरणम् एकं लिखत।
‘वृद्धिरेचि’ इति गुणस्य अपवादः। अस्य सूत्रस्य एकम् उदाहरणं तावत् – तत्रैव इति।
१२. धातुसंज्ञा केन सूत्रेण विधीयते? ‘प्रार्च्छति’ इत्यत्र वृद्धिः केन विधीयते?
‘भूवादयो धातवः’ इति सूत्रेण धातुसंज्ञा विधीयते। ‘प्रार्च्छति’ इत्यत्र ‘उपसर्गादृति धातौ’ इति सूत्रेण वृद्धिः विधीयते।
१३. सुधी+उपास्य इत्यत्र सन्धौ कति रूपाणि भवन्ति? कानि च तानि?
सुधी+उपास्य इत्यत्र सन्धौ द्वे रूपे भवतः। ते हि – सुद्ध्युपास्यः, सुध्युपास्यः चेति।
१४. गो+अग्रम् इत्यत्र सन्धौ कति रूपाणि भवन्ति? कानि च तानि?
गो+अग्रम् इत्यत्र सन्धौ त्रीणि रूपाणि भवन्ति। तानि हि – गवाग्रम्, गोऽग्रम्, गो अग्रम् चेति।
१५. गवेन्द्रः इत्यत्र केन सूत्रेण ओकारस्य स्थाने कः आदेशः विधीयते?
गवेन्द्रः इत्यत्र ‘इन्द्रे च’ इति सूत्रेण ओकारस्य स्थाने अवङ् आदेशो विधीयते।
******
No comments:
Post a Comment