वैयाकरणसिद्धान्तकौमुदीस्थपूर्वार्धप्रकरणवैशिष्ट्यं तत्क्रममाहात्म्यञ्च
०.
भूमिका
–
०.१
संस्कृतव्याकरणम् – श्रूयते
हि “ब्राह्मणेन निष्कारणो
धर्मः षडङ्गो वेदोऽध्येयो
ज्ञेयः”१ इति। महाभाष्ये
भाष्यकारः पतञ्जलिः वेदास्यभूतस्य
व्याकरणस्य पञ्चमुख्यप्रयोजनानि
त्रयोदशगौणप्रयोजनानि च
व्याचख्यौ। अपि च व्याकरणं
यदि नाभविष्यत् तर्हि
महाभारतरघुवंशादिकाव्यानां
बोधोऽप्यस्माकं नाभविष्यत्।
यदि वयं स्वस्वमातृभाषायाः
प्राचीनरूपं पश्यामस्तर्हि
वयं द्रष्टुं शक्नुमो यद्
अस्माकं ज्ञानपूर्वकसञ्चरणं
तत्तद्भाषया रचितेषु काव्येषु
न भवति। कश्चन संस्कृतज्ञो
यथा आधुनिककाव्यमवगच्छति
तथैव प्राक्तनकाव्यान्यपि
लीलया बुध्यते। अस्य मूलमस्ति
व्याकरणम्। अन्या काचिद्भाषा
न संस्कृतभाषावद्व्याकरणपरिरक्षिता।
अतः कालेन अपशब्दा भाषायां
प्रविशन्ति। भाषा च परिवर्तते,
न
तथा संस्कृतं इत्येतन्निर्विवादम्।
अपि च षडङ्गेषु व्याकरणं
प्रधानम्। अतः शास्त्रस्यास्य
माहात्म्यं सर्वविदितम्।
तत्र व्याकरणानां नवविधत्वं
प्रसिद्धम्। तथाहि –
“ऐन्द्रं
चान्द्रं काशकृत्स्नं कौमारं
शाकटायनम्।
सारस्वतञ्चापिशलं
शाकलं पाणिनीयकम्॥”२
इति स्मृतिः।
सर्वेष्वपि
व्याकरणेषु लौकिकवैदिकोभयविधशब्दसाधकतया
पाणिनीयव्याकरणस्य प्राधान्यम्।
अत एव पाणिन्युपज्ञं व्याकरणं
प्रसिद्धम्। पाणिनिरष्टाध्यायीं
समदृभत्। तदाश्रित्य आचार्यैः
नानाप्रक्रियाग्रन्थाः
निरमायिषत।
०.२
सिद्धान्तकौमुदीकर्तृपरिचयः
– वैयाकरणचूडामणिरयं
भट्टोजीदीक्षितनामा
ब्राह्मणकुलोत्पन्नो महावैयाकरणः
महाराष्ट्रे जनिमलब्ध।
लक्ष्मीधरदीक्षितः अस्य
पिता। षोडशशताब्द्यां
पूर्वार्धे विक्रमनाम्नः
राज्ञः आश्रये आसीदिति
नैकेषामभिप्रायः। अस्य वंशे
सर्वेऽपि पारिवारिकाः विविधेषु
विषयेषु पण्डिता एव आसन् ।
एवम् आपरम्पराम् एष विद्वद्वंशे
समजनि। सिद्धान्तकौमुदीं
व्यतिरिच्यापि प्रौढमनोरमा,
शब्दकौस्तुभः
इत्यादयो ग्रन्था अनेन समपादिषत।
०.३
सिद्धान्तकौमुद्या माहात्म्यम्
– श्रीमद्भगवत्पाणिनिप्रणीतमष्टाध्यायीस्थं
सूत्रनिकरं समाश्रित्य
प्रक्रियाक्रममनुसरता
वेदवदनविद्यावेदकेन
श्रीमद्भट्टोजिदीक्षितेन
पाणिनीयसूत्रक्रमविपर्यासकृता
प्रकरणप्रचुरप्रोज्ज्वलो
वैयाकरणसिद्धान्तकौमुदीनामको
ग्रन्थः प्राणायि। सत्स्वपि
नानाग्रन्थेषु सर्वोत्कृष्टो
भवत्ययं प्रक्रियाग्रन्थः।
इदानीं प्रश्नो भवति यत्
पाणिनीयसूत्रक्रमस्य विपर्यासेन
को लाभः?
दीक्षितेन
प्रकरणानुसारं ग्रन्थोऽयं
व्यरचि। तेन किं प्रयोजनमिति
चेदुच्यते एतेन महान् लाभो
जातः। व्याकरणविविदिषूणां
बोधसौकर्याय ग्रन्थस्यास्य
माहात्म्यं विद्यते। तथाहि
कश्चित् साहित्यमाधारीकृत्य
पठितुमिच्छति,
परन्तु
व्याकरणज्ञानेन विना सुचारुरूपेण
संस्कृतभाषामधिगन्तुं न
शक्नोति। न च तस्य व्याकरणस्यामूलचूडं
ज्ञानमपेक्षितम्।केषाञ्चित्प्रकरणानां
ज्ञानेनैव तत्सेत्स्यति।
यथा – संज्ञा-परिभाषा-सन्धि-कारक-समासादिप्रकरणानां
ज्ञानेनैव सामान्यज्ञानं
भवितुमर्हति। किन्तु कश्चिद्यदि
सामान्यज्ञानायाप्यष्टाध्यायीं
पठति तर्हि तेन पूर्णाष्टाध्यायी
पठनीया स्यात्। यथा –
अष्टाध्याय्याम् “इको
यणचि‘(अष्टा.-६/१/७७)
इति
सूत्रं षष्ठाध्याये विद्यते।
अतः “सुध्युपास्यः‘
इति रूपसाधनाय षष्ठाध्यायपर्यन्तं
पठनीयं भविष्यति। परन्तु
सिद्धान्तकौमुद्याः प्राय
आदिमभागस्थस्य अच्सन्धिप्रकरणस्य
प्रथमसूत्रेणैव तत्सिध्यति।
तेन च महतः कालस्य प्रयत्नस्य
चावश्यकता न भवति। अतः स्वल्पेन
कालेन व्याकरणज्ञानार्जने
सिद्धान्तकौमुदी अद्वितीया।
०.४
सिद्धान्तकौमुद्याः परिचयः
–
सिद्धान्तकौमुदी
द्विधा-
पूर्वार्धाख्या,
उत्तरार्धाख्या
चेति। अत्र मानं भवति –
“पूर्वार्धे
कथितास्तुर्यपञ्चमाध्यायवर्तिनः।
प्रत्यया
अथ कथ्यन्ते तृतीयाध्यायगोचराः॥”३
इति
प्रायशः
वाक्ये तिङन्तपदापेक्षया
सुबन्तानां संख्याधिक्यं
भवति,
“एकतिङ्‘४
इत्युक्तत्वात्। “देवदत्तः
ग्रामं गच्छति‘ इत्यादिषु
वाक्येषु तिङ्न्तापेक्षया
सुबन्तानां तत्सम्बन्धिनां
च प्राधान्यात् तेषां निरूपणमादौ
पूर्वार्धे कृतम्,
अन्ते
अर्थादुत्तरार्धे च तिङन्तानां
निरूपणं विहितम्।
०.५.
सिद्धान्तकौमुद्याः
क्रमः – पूर्वार्धे
प्रकरणानां क्रमस्तु इत्थं
–
संज्ञा-परिभाषा-सन्धि(अच्सन्धि-प्रकृतिभाव-हल्सन्धि-विसर्गसन्धि-स्वादिसन्धिप्रकरणानि)-षड्लिङ्ग(अजन्तपुंल्लिङ्ग-अजन्तस्त्रीलिङ्ग-अजन्तनपुंसक-हलन्तपुंल्लिङ्ग-हलन्तस्त्रीलिङ्ग-हलन्तनपुंसक-अव्ययप्रकरणानि)-स्त्रीप्रत्यय-कारक-समास(अव्ययीभाव-तत्पुरुष-बहुव्रीहि-द्वन्द्व-एकशेष-सर्वसमासशेष-समासान्त-अलुक्-समासाश्रयविधिप्रकरणानि)-तद्धितप्रकरणानि(अपत्याधिकार-रक्ताद्यर्थका-चातुरर्थिका-शैषिका-प्राग्दीव्यतीय-ठगधिकार-प्राग्घितीय-छयतोरधिकार-आर्हीय-कालाधिकार-ठञधिकार-भावकर्मार्थ-पाञ्चमिक-प्राग्दिशीय-प्रागिवीय-स्वार्थिक-द्विरुक्तप्रक्रियाप्रकरणानि)
इति।
उत्तरार्धे
प्रकरणानां क्रमस्त्वित्थम्-
तिङन्तप्रक्रिया(भ्वादि-अदादि-जुहोत्यादि-दिवादि-स्वादि-तुदादि-रुधादि-तनादि-क्र्यादि-चुरादि-ण्यन्त-सन्नन्त-यङन्त-यङ्लुङन्त-नामधातु-कण्ड्वादि-प्रत्ययमाला-आत्मनेपद-परस्मैपद-भावकर्म-कर्मकर्तृ-लकारार्थप्रक्रियाः)-कृदन्तप्रक्रिया(कृत्य-कृत्-उणादि-उत्तरकृदन्तानि)-वैदिक-स्वर-फिट्सूत्र-लिङ्गानुशासनानि।
१.
सिद्धान्तकौमुद्याः
पूर्वार्धीयप्रकरणानां
क्रमौचित्यविचारः – सम्प्रति
क्रमश एकैकस्य प्रकरणस्य
क्रमौचित्यविचारोऽत्र
प्रस्तूयते।
१.१.
संज्ञाप्रकरणम्
–
दीक्षितस्तावदादौ संज्ञाप्रकरणं
निरूपितम्। तत्र प्रश्नः
उदेति यत् कुतस्तत्प्रकरणमेवादौ
वर्णितम्। व्याकरणे सूत्राणि
षट्-प्रकारकाणि
–
“संज्ञा
च परिभाषा च विधिर्नियम एव
च।
अतिदेशाधिकारश्च
षड्विधं सूत्रलक्षणम्॥”इति।
षट्प्रकारकेषु
सूत्रेषु विधिसूत्रस्य
प्राधान्यं शब्दशास्त्रे
सर्वाधिकमिति सर्वसम्मतम्।
विधिसूत्रस्य प्रवृत्तौ
संज्ञासूत्रं परिभाषासूत्रं
चापेक्षितम्। तथाहि – “इको
यणचि‘ इत्येकं विधिसूत्रम्।
सूत्रस्यास्य वृत्तिर्भवति
– “इकः स्थाने यण् स्यादचि
संहितायां विषये” इति।
इक्प्रत्याहारस्य (इ,
उ,
ऋ,
ऌ)
स्थाने
यण्प्रत्याहारः (य,
र,
ल,
व)
आदेशः
स्यात् अचि (अ,
इ,
उ,
ऋ,
ऌ,
ए,
ओ,
ऐ,
औ)
परे
सन्धौ कार्ये इत्यर्थः। अत्र
इक्प्रत्याहारेण “इ,
उ,
ऋ,
ऌ"इत्यादयो
वर्णा यद् बोध्यन्ते तत्तु
प्रत्याहारसंज्ञायां कृतायामेव।
प्रत्याहारसंज्ञा केन सूत्रेण
भवति इति चेदुद्यते “आदिरन्त्येन
सहेता”(अष्टा.-१.१.७१)
इत्यनेन।
सूत्रमिदं भवति संज्ञासूत्रम्,
सूत्रेणानेन
प्रत्याहारसंज्ञा विधीयत
इति हेतोः। अतो
विधिसूत्रमूलकसन्धिप्रकरणात्प्राक्संज्ञाप्रकरणमपेक्षितम्।
तथैव “इको यणचि” इति सूत्रस्य
अर्थप्रतीतये “तस्मिन्निति
निर्दिष्टे पूर्वस्य”(अष्टा.-१/१/६६),
“षष्ठी
स्थानेयोगा”(अष्टा.-१/१/४९),
“स्थानेऽन्तरतमः”(अष्टा.-१/१/५०)
इत्यादयः
परिभाषा अपेक्षिता भवन्ति।
तस्मात् “इको यणचि”
इत्यादिविधिसूत्रस्य प्रवृत्तौ
नाम अर्थप्रतिपादनाय
परिभाषासूत्राणि प्राङ्निरूपणीयानि
इत्यागतम्। तेन च
विधिसूत्रात्प्राक्संज्ञासूत्रं
परिभाषासूत्रञ्च निरूपणीयमिति
फलितम्। इदानीं प्रश्नः
समुद्भवति यत्,
संज्ञापरिभाषयोर्मध्ये
कस्य वर्णनमादौ करणीयम् इति।
तत्रोच्यते संज्ञाप्रकरणमादौ
विवरणीयम्। कारणं हि परिभाषासूत्रस्य
अर्थप्रकटनाय प्रतिपादनाय
वा संज्ञासूत्रमावश्यकमिति।
तथाहि – “इको गुणवृद्धी”(अष्टा.-१/१/३)
इति
परिभाषासूत्रस्य वृत्तिर्भवति
– “गुणवृद्धिशब्दाभ्यां यत्र
गुणवृद्धी विधीयेते तत्र इकः
इति षष्ठ्यन्तं पदमुपतिष्ठते”
इति। इह वृत्तौ यौ गुणवृद्धिशब्दौ
प्रयुक्तौ तयोः अर्थः कः इति
पृच्छायाः समाधिः
“अदेङ्गुणः”(अष्टा.-१/१/२),
“वृद्धिरादैच्”(अष्टा.-१/१/१)
चेति
संज्ञासूत्रद्वयेन विना
भवितुमशक्यम्। अपि च वृत्तिवाक्ये
प्रयुक्तस्य “इक्‘पदस्य
व्याख्यानाय “आदिरन्त्येन
सहेता” इति प्रत्याहारसंज्ञानिर्मातृ
संज्ञासूत्रमेव शरणम्। अतः
आदौ संज्ञाप्रकरणं स्थापनीयमिति
निर्विवादं सिद्ध्यति। ततश्च
परिभाषाप्रकरणमिति।
तत्र
च नामकरणं संज्ञा इति सामान्यवचः।
यथा सप्तपदार्थघटकवस्त्वभिधानं
लोके संज्ञा इति ब्रूयते,
तथैव
व्याकरणशास्त्रेऽपि
वर्णविकारपदविकारादिबोधाभिधानानि
प्रत्याहार-सवर्ण-ह्रस्व-दीर्घ-प्लुत-गुण-वृद्ध्यादीनि
सञ्ज्ञापदेनाभिधीयन्ते।
यस्मिन्प्रकरणे एतादृशानामभिधानम्भवति
तद्भवति संज्ञाप्रकरणम्।
संज्ञाप्रकरणे विद्यमानानां
सूत्राणां संज्ञापदं संज्ञिपदञ्च
विभागद्वयं वर्तते। यथा –
“अदेङ्गुणः” इत्यस्मिन्सूत्रे
गुण इति संज्ञापदम्,
अदेङ्
इति संज्ञिपदम्। एतदप्यवधेयं
यत्संज्ञाप्रकरणे वर्तमानानि
सर्वाण्यपि सूत्राणि न
संज्ञाविधायकानि,
यथा
– “नाज्झलौ”(१/१/१०)
इति।
१.२.
परिभाषाप्रकरणम्
– अनियमे नियमकारिणी परिभाषा
इति प्रसिद्धा सूक्तिः। का
नाम परिभाषेति जिज्ञासायां
निरुच्यते – “परितो
व्यापृतां भाषाम्परिभाषाम्प्रचक्षते”
इति। अपि चोदितं-
“परिभाषा
पुनरेकदेशस्था सती कृत्स्नं
शास्त्रमभिज्वलयति प्रदीपवत्।
तद्यथा प्रदीपः सुप्रज्वलित
एकदेशस्थः सर्वं वेश्माभिज्वलयति”५
इति। यथा-
“समर्थः
पदविधिः”(अष्टा.-२.१.१)
इति
परिभाषासूत्रम्। यो यः पदविधिः
व्याकरणे दृश्यते स स समर्थाश्रितो
भवति। यस्मिन्प्रकरणे
परिभाषाणामभिधानं विद्यते
तत्प्रकरणं परिभाषाप्रकरणम्।
विधिसूत्राणां निरूपणात्
प्रागेव परिभाषाणामपि प्रतिपादनं
कर्तव्यमिति तु पूर्वमेव
प्रतिपादितम्। वस्तुतस्तु
भगवता पाणिनिनाऽपि आदिमप्रकरणयोः
संज्ञानां परिभाषाणां च
प्रतिपादनं कृत्वैव व्याकरणं
निर्मितम्।
१.३.
सन्धिप्रकरणम्
– संज्ञापरिभाषाप्रकरणयोरपेक्षितत्वात्तदादौ
निरूप्य सन्धिं विवृणोति।
सन्धिः संहितेति पर्यायाः।
सम्यग्धीयते इति सन्धिरित्युच्यते।
सम्-उपसर्गात्
“डुधाञ्
धारणपोषणयोः‘ इत्यस्माद्धातोः
“उपसर्गे घोः कि”
इत्यनेन भावे कि-प्रत्यये
सन्धिशब्दो निष्पद्यते।
सम्-उपसर्गात्
“डुधाञ्
धारणपोषणयोः‘ इत्यस्माद्धातोर्भावे
क्तप्रत्यये “दधातेर्हि‘
इत्यनेन हि आदेशे स्त्रीत्वे
टापि संहिताशब्दो व्युत्पद्यते।
वर्णानामतिशयितः सन्निधिः
सन्धिरित्युच्यते।
तथैवोवाचाष्टाध्याय्यां
भगवान् पाणिनिः-
“परः
सन्निकर्षः संहिता”(अष्टा.-१/४/१०९)
इति।
एतदप्यवधेयं यत् सन्धिर्न
सर्वत्र नित्यत्वं भजते।
श्रूयते च-
“संहितैकपदे
नित्या,
नित्या
धातूपसर्गयोः।
नित्या
समासे,
वाक्ये
तु सा विवक्षामपेक्षते॥”
इति।
संहिता
पञ्चधा –
१.३.१.
अच्सन्धिः
– स्वरयोः परस्परं सन्निकर्षो
भवति। यथा – विद्या+आलयः=विद्यालयः,
सुधी+उपास्यः=सुध्यपास्यः
इति।
१.३.२.
प्रकृतिभावसन्धिः
– स्वराणां स्थितिर्नियम्यते।
यथा – लते एते,
विष्णू
इमौ इत्यादिषु सन्धिर्न भवति।
१.३.३.
हल्सन्धिः
– हल्वर्णयोः सन्निकर्षो
भवति। यथा – रामस्+चिनोति=रामश्चिनोति,
एतत्+मुरारिः=एतन्मुरारिः,
विद्वान्+लिखति=विद्वाँल्लिखति
इति।
१.३.४.
विसर्गसन्धिः
– विसर्गेण साकमन्यवर्णानां
सन्निकर्षेण विसर्गस्य रूपं
परिवर्तते। यथा – हरिः+शेते=हरिश्शेते,
नमः+करोति=नमस्करोति,
अयः+पात्रम्=अयस्पात्रम्
इति।
१.३.५.
स्वादिसन्धिः
– स्वादिविभक्तिसम्बन्धयुक्तः
सन्निकर्षो भवति। यथा –
शिवः+अर्च्यः=शिवोऽर्च्यः,
देवाः+अत्र=देवा
अत्र,
भोः+देवाः=भो
देवाः इति।
इदानीं
पञ्चसन्धेः क्रमनिर्णये
हेतुरुपादीयते। अक्षरसमाम्नायेषु
“अइउण्‘ इत्यादिरूपेणाचामेवादौ
पाठात्तेषामेव सन्धानमच्सन्धिनाम्नाऽऽदौ
प्रास्तावीत् दीक्षितपादः।
तदानुषङ्गिकतया परस्मिन्नेवाचां
सन्धिप्रतिषेधमूलकः प्रकृतिभावो
वर्णितः। ततोऽनन्तरपठितस्य
हलः सन्धानं हल्सन्धिनाम्ना
प्रत्यपादि। ततो विसर्गसन्धिरवर्ण्यत।
हल्ष्वपि सकारस्य परत्वात्
तदाश्रयो विसर्गसन्धिरपि
परं प्रादर्शि। ततो निरूपितः
स्वादिसन्धिः। तत्सन्धिविधायकसूत्राणां
संहिताधिकारे पाठात् सन्धिप्रकरणे
तेषां पाठः करणीय एव। किञ्च
अनन्तरपठिताय शब्दाधिकाराय
स्वादिसन्धीनामपेक्षा वर्तत
इति कृत्वा तस्मात्पूर्वमस्य
सन्धेः पाठः कर्तव्य इत्येको
हेतुः। एवञ्च सन्धिरयं
पूर्वोक्तसन्धीनामपवादभूतोऽतस्तेभ्यः
परमेव पाठो दर्शित इति
हेत्वन्तरम्। कथमपवाद इति
चेद् राम+अस्
इति स्थिते “अतो गुणे”(अष्टा.-६.१.९७)
इत्यच्सन्धिप्रकरणपठितेन
सूत्रेण पररूपे प्राप्ते तं
प्रबाध्य “प्रथमयोः
पूर्वसवर्णः(अष्टा.-६.१.१०२)
इति
स्वादिसन्धिप्रकरणपठितेन
सूत्रेण पूर्वसवर्णदीर्घो
विधीयते,
ततः
सस्य नत्वे रामान् इति सिद्धिः।
पुनः
प्रश्नः समुदेति यत्
सन्धिप्रकरणमेवादौ कुतः
स्थापितं तत्र भिन्नप्रकरणानां
वर्तमानत्वात्। तत्र हेतुर्भवति-
१)
सन्धिः
वर्णविधिः,
अतः
तत्र शब्दस्यार्थज्ञानं
नावश्यकम्।
२)
अन्येषु
प्रकरणेषु स्थितानां पदानां
सिद्धये सन्धेरावश्यकता
दृश्यते। यतो हि रामाः इति
रूपसाधनावसरे राम+अस्
इति स्थिते “प्रथमयोः पूर्वसवर्णः”
इत्यनेन पूर्वसवर्णदीर्घे
रामास् इत्यवस्थायां सस्य
रुत्वे विसर्गे च रामाः इति
सिद्ध्यति। पूर्वसवर्णदीर्घस्तु
सन्धिकार्यम्। तस्माद् हेतोः
सन्धिप्रकरणस्यावश्यकता
शब्दाधिकारादिभ्यः प्रकरणेभ्यः
पूर्वमेव।
एवमेव
स्त्रीप्रत्यय-समास-तद्धित-तिङन्तापेक्षया
पूर्वमपेक्षितत्वात्तदादौ
वर्णितम्।
१.४.
षड्लिङ्गप्रकरणम्
– सर्वप्रकरणोपकारकं
सन्धिप्रकरणं विविच्य
षड्लिङ्गप्रकरणे व्याकरणशास्त्रस्य
मुख्यभूतं शब्दमनुशास्ति।
व्याकरणशास्त्रे पदं द्विविधं
– क)सुबन्तं
ख)तिङन्तं
चेति। इदानीं सुबन्तशब्दसाधनाय
प्रकरणमारभ्यते। कुतः
सुबन्तप्रकरणमादौ निरूप्यते
तत्कारणं पूर्वं एव सूचितम्।
सुबन्तप्रक्रियाप्रतिपादनाय
शब्दाधिकारे षट्प्रकरणानि
सन्निवेशितानि अत एतत्
षड्लिङ्गप्रकरणमप्युच्यते।
तत्र क्रमेण प्रकरणानि यथा
-
१.४.१.
अजन्तपुंल्लिङ्गप्रकरणम्
– अचः अच्प्रत्याहारस्थाः
वर्णाः(अ,
इ,
उ,
ऋ,
ऌ,
ए,
ऐ,
ओ,
औ)
अन्ते
येषां ते अजन्ताः,
अजन्तेषु
पुंल्लिङ्गाः इति अजन्तपुंल्लिङ्गाः,
तेषां
व्याख्यानं यस्मिन्प्रकरणे
क्रियते तदजन्तपुंल्लिङ्गप्रकरणम्।
यथा– रामः,
निर्जरः,
पादः
इत्यादिपदानां व्याख्यानमस्मिन्प्रकरणे
विधीयते अजन्तत्वात्
पुंल्लिङ्गत्वाच्च।
१.४.२.
अजन्तस्त्रीलिङ्गप्रकरणम्
– अचः अच्प्रत्याहारस्थाः
वर्णाः अन्ते येषां ते अजन्ताः,
अजन्तेषु
स्त्रीलिङ्गाः इति अजन्तस्त्रीलिङ्गाः,
तेषां
व्याख्यानं यस्मिन्प्रकरणे
विधीयते तदजन्तस्त्रीलिङ्गप्रकरणम्।
यथा – लता,
नदी,
स्त्री
इत्यादिशब्दस्य व्याख्यानमस्मिन्प्रकरणे
क्रियते अजन्तत्वात्
स्त्रीलिङ्गत्वाच्च।
१.४.३.
अजन्तनपुंसकलिङ्गप्रकरणम्
– अचः अच्प्रत्याहारस्थाः
वर्णाः अन्ते येषां ते अजन्ताः,
अजन्तेषु
नपुंसकलिङ्गाः इति अजन्तनपुंसकलिङ्गाः,
तेषां
व्याख्यानं यस्मिन्प्रकरणे
क्रियते तदजन्तनपुंसकलिङ्गप्रकरणम्।
यथा – फलम्,
वारि,
मधु
इत्यादिपदस्य व्याख्यानमस्मिन्प्रकरणे
विधीयते अजन्तत्वात्
नपुंसकलिङ्गत्वाच्च।
१.४.४.
हलन्तपुंल्लिङ्गप्रकरणम्
– हलः हल्प्रत्याहारस्थाः
वर्णाः(ह,
य,
व,
र,
ल,
ञ,
म,
ङ,
ण,
न,
झ,
भ,
घ,
ढ,
ध.
ज,
ब,
ग,
ड,
द,
ख,
फ,
छ,
ठ,
थ,
च,
ट,
त,
क,
प,
श,
ष,
स)
अन्ते
येषां ते हलन्ताः,
हलन्तेषु
पुंल्लिङ्गा इति हलन्तपुंल्लिङ्गाः,
तेषां
व्याख्यानं यस्मिन्प्रकरणे
क्रियते तद्धलन्तपुंल्लिङ्गप्रकरणम्।
यथा – अनडवान्,
अहं,
त्वमित्यादिपदानां
व्याख्यानमस्मिन्प्रकरणे
विधीयते हलन्तत्वात्
पुंल्लिङ्गत्वाच्च।
१.४.५.
हलन्तस्त्रीलिङ्गप्रकरणम्
– हलः हल्प्रत्याहारस्थाः
वर्णाः अन्ते येषां ते हलन्ताः,
हलन्तेषु
स्त्रीलिङ्गाः इति हलन्तस्त्रीलिङ्गाः,
तेषां
व्याख्यानं यस्मिन्प्रकरणे
क्रियते तद्धलन्तस्त्रीलिङ्गप्रकरणम्।
यथा – दिक्,
वाग्,
गीरित्यादिशब्दस्य
व्याख्यानमस्मिन्प्रकरणे
विधीयते हलन्तत्वात्
स्त्रीलिङ्गत्वाच्च।
१.४.६.
हलन्तनपुंसकलिङ्गप्रकरणम्
– हलः हल्प्रत्याहारस्थाः
वर्णाः अन्ते येषां ते हलन्ताः,
हलन्तेषु
नपुंसकलिङ्गाः इति हलन्तनपुंसकलिङ्गाः,
तेषां
व्याख्यानं यस्मिन्प्रकरणे
क्रियते तद्धलन्तनपुंसकलिङ्गप्रकरणम्।
यथा – ब्रह्म,
पचदित्यादिशब्दस्य
व्याख्यानमस्मिन्प्रकरणे
विधीयते हलन्तत्वात्
नपुंसकलिङ्गत्वाच्च।
इदानीं
पृच्छोदेति यदेतेषामेवं
क्रमविन्यासे किं कारणम्
इति?
तत्रोत्तरं
भवति – इहापि सन्धिवदक्षरसमाम्नायेषु
अचामादौ
पाठात्प्रथममजन्तपुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गप्रकरणानि
वर्णितानि,
हलाञ्चानन्तरं
पाठात्परं
हलन्तपुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गप्रकरणानि
समुपन्यस्तानीति। इदानीं
पुनः प्रश्नो जायते यत्कथमादौ
पुंल्लिङ्गस्यानन्तरं
स्त्रीलिङ्गस्य ततः नपुंसकस्येति?
तत्रोद्यते
– व्याकरणे लिङ्गनिर्धारणे
कश्चन विलक्षणः पन्था आश्रीयते।
तद्यथा सांख्यदर्शनानुसारेण
सर्वे पदार्थाः सत्त्वरजस्तमोनामकगुणत्रयाणां
विपरिणामेन जायन्ते। तदनुसारं
यस्मिन् पदार्थे गुणत्रयस्योपचयो
वक्तव्यस्तस्य पदार्थस्य
पुंस्त्वनिर्देशः,
अपचये
वक्तव्ये तस्य स्त्रीत्वनिर्देशः,
स्थितिमात्रवक्तव्ये
नपुंसकलिङ्गत्वेन व्यपदेशः।
एवं गुणत्रयस्य स्थितितारतम्येन
पुंल्लिङ्गस्यादौ वर्णनं
कृतम्,
ततः
स्त्रीलिङ्गस्य,
ततो
नपुंसकस्येति बोद्ध्यम्।
१.४.७.
अव्ययप्रकरणम्
– तत आनुषङ्गिकतया
स्त्रीप्रत्ययप्रकरणात्प्राङ्निर्विभक्तिकमव्ययं
वर्णयति। न व्येति परिवर्तत
इत्यव्ययम्। अविकारि
अव्ययमित्यर्थः। तदुक्तम्-
“सदृशं
त्रिषु लिङ्गेषु सर्वासु च
विभक्तिषु।
वचनेषु
च सर्वेषु यन्न व्येति तदव्ययम्॥”६
इति।
अव्ययवाचिशब्दः
सर्वदा समानरूपयुक्तं भवति।
यथा -
ऋते,
एवं,
धिगित्यादयः।
कानिचन अव्ययानि विभक्त्यर्थप्रधानानि
भवन्ति,
कानिचन
क्रियार्थप्रधानानि। यथा-
उच्चैर्नीचैरिति
विभक्त्यर्थप्रधानम्,
हिरुक्,
पृथगिति
क्रियार्थप्रधानम्।
१.५.
स्त्रीप्रत्ययप्रकरणम्
–
अव्ययप्रकरणं विशदीकृत्य
स्त्रीप्रत्ययप्रकरणं
निरूप्यते। स्त्रीत्वद्योतकाः
प्रत्ययाः स्त्रीप्रत्ययाः।
तेषां स्त्रीप्रत्ययानां
प्रकरणं स्त्रीप्रत्ययप्रकरणमुच्यते।
यथा –
अजशब्दः पुंसि वर्तते,
टापि
प्रत्यये कृते सति अजा इति
निष्पद्यते। तत्र अष्टौ
स्त्रीप्रत्ययाः सन्ति। ते
हि –
टाप्-डाप्-चाप्-ङीप्-ङीष्-ङीन्-ऊङ-तीति।
अत्रेदं स्मरणीयं यत् व्याकरणनये
लिङ्गमपि प्रातिपदिकार्थः।
अतः स्त्रीप्रत्ययाः
स्त्रीत्वद्योतकाः। यथा –
वाक्,
गिर्
इत्यादौ स्त्रीप्रत्ययं
विनापि स्त्रीत्वबोधः स्वतो
भवति। तात्पर्यं तु इदमेव,
स्त्रीप्रत्यये
विहिते सति स्त्रीत्वबोधो
भवत्येव इति नियमः। परन्तु
क्वचित् स्त्रीप्रत्ययं
विनापि स्त्रीत्वबोधो भवति।
अत्र प्रश्नो भवति अव्ययप्रकरणात्परमेव
स्त्रीप्रत्ययप्रकरणं कुतः
स्थापितं,
किमर्थमन्यानि
प्रकरणानि न स्थापितानि।
तत्रोच्यते,
दीक्षितपादो
यावच्छक्यं पाणिनीयक्रममनुससार।
तेन हि पौर्वापर्यस्य अपवादादीनां
च परिज्ञाने सौकर्यं स्यात्।
“ङ्याप्प्रातिपदिकात्”
इत्यधिकारसूत्रपाठः
अजन्तपुंल्लिङ्गप्रकरणे
कृतः। सः अधिकारः अत्रापि
विद्यते। अतः तदनुसृत्य इह
स्त्रीप्रत्ययप्रकरणं
स्थापितम्।
१.६.
कारकप्रकरणम्
–
लोके साधारणतो वाक्यादर्थप्रतीतिर्लक्ष्यते।
वाक्यसम्बन्धिकार्यस्य
विधिरप्यष्टाध्याय्यां
दृश्यते परन्तु भगवता पाणिनिना
वाक्यस्य परिभाषा न निर्दिष्टा।
वाक्यपरिभाषा वार्तिककारैः
कात्यायनैः कथिता। अतः
वार्तिककारो वाक्यकार इत्यपि
आख्यायते। तेन वाक्यस्य
परिभाषाद्वयमुदितम् –
१)“आख्यातं
साव्ययकारकविशेषणं वाक्यम्”७
इति। आख्यातपदेन क्रियापदं
निर्दिश्यते। तेन चार्थो
भवति अव्ययकारकविशेषणसहितं
क्रियापदं वाक्यमिति। अव्ययसहितं
यथा-
शनैः
शनैः भाषते,
कारकसहितं
यथा-
वनं
गच्छति,
क्रियाविशेषणं
यथा -
द्रुतं
धावति।
२)“एकतिङ्”
इति। एकक्रियामुख्यविशेष्यकबोधजनकत्वं वाक्यत्वम्। यथा- पश्य मृगो धावति।
वाक्यस्याखण्डतामभिलक्ष्यैव
व्याकरणे वाक्यस्फोटस्य
प्राधान्यं परिलक्ष्यते।सम्पूर्णवाक्यस्य
सुष्ठुबोधार्थं वाक्ये
पदकल्पना क्रियते। तेषां
ज्ञानं विना वाक्यज्ञानं न
सिध्यतीति सर्वविदितम्।
पदञ्च द्विविधं-
सुबन्तं
तिङन्तं चेति। सूचीकटाहन्यायेन
षड्लिङ्गाव्ययप्रकरणे
सुबन्तमादौ निरूपितम्। ततः
सुबर्थप्रतिपादकप्रकरणं
कारकप्रकरणं प्रारब्धम्।
सुप्प्रकृतिभूतप्रातिपदिकसाधुत्वप्रतिपादकसमासादि-प्रकरणमुद्देश्यभूतत्वादत्र
कारकप्रकरणस्य उपयोगितास्तीति
हेतोः तदेवादौ वर्णितम्। अपि
च स्त्रीप्रत्ययप्रकरणमपि
कारकप्रकरणात् प्राक् निरूपितम्।
यतो हि ङ्याबन्तेभ्यः
आबन्तेभ्योऽपि सुबुत्पत्तिर्भवति।
१.७.
समासप्रकरणम्
–
अधुना समासः। समसनं समासः।
अनेकेषां पदानामेकीभवनं वा।
अस्मिन् ग्रन्थे समासस्य
भेदानुसारं तत्तदनुषङ्गिविषयञ्च
क्रमात्प्रकरणरूपेण निबबन्ध
ग्रन्थकारः। इदानीं जिज्ञासा
समुदेति कुतः समासप्रकरणमेवास्थापयदत्र?
आसीत्
तद्धितप्रकरणं,
कुतो
तन्न। तत्रोच्यते -
१)
समासस्य
तद्धितापेक्षयाल्पविषयत्वात्सूचीकटाहन्यायेन
तदेवादौ अग्रन्थीत्।
२)
पुनः
किं पदं,
का
विभक्तिः,
तस्याः
को वाऽर्थ इत्यादिकं सर्वं
विविच्य इदानीं तदाश्रितसमासान्
प्रतिपिपादयिषुः तत्पूर्वं
स्थापितम्। तद्धितप्रत्ययास्तु
पदेभ्यः समस्तेभ्योऽपि
विधीयन्ते। अपि च तत्रादौ
प्रत्ययविधानं,
ततः
प्रातिपदिकसंज्ञा,
ततः
सुपो लुक्,
आदिवृद्धिः,
प्रकृतिप्रत्ययसंयोगः,
ततः
पुनः सुबुत्पत्तिः। एवं
प्रक्रियागौरवं समासे न
विद्यते। तत्र तु केवलं
पदद्वयस्य ततोऽधिकस्य वा
पदस्य मध्ये समासविधानं,
ततः
पदानां सुपो लुकि,
समूहात्सुबुत्पत्तिश्च।
तदेवादौ समदृभत्।
ननु
सर्वसमासशेषप्रकरणे कारिकैका
विलसति।
सुपां
सुपा तिङा नाम्ना धातुनाथ
तिङां तिङा।
सुबन्तेनेति
विज्ञेयः समासः षड्विधो
बुधैः॥८
अस्या
ज्ञायते यन्न केवलं सुपां
सुपा सहापि तु तिङामपि तिङा
सह,
सुपामपि
तिङा सह समासो भवति। अतः कथं
सुबन्तं निरूप्य तिङन्तमनिरूप्य
समासो वर्णितः। तत्रोद्यते
-
यद्यपि
तथा भवति तथापि तादृशाः समासा
न बाहुल्येन दृश्यन्ते।सुबन्तयोः
समास एव प्रधानः,
अतो
न कोऽपि दोषः।
तत्रादिमेऽव्ययीभावप्रकरणं
प्रत्यपादयत्। प्रकरणस्यास्य
आदिमे केवलसमासोऽवर्ण्यत।
तस्योदाहरणं भवति -
पूर्वं
भूतः इति भूतपूर्वः इति।
समासोऽयं विशेषसंज्ञाविनिर्मुक्तोऽतः
केवलसमास इत्यभिधीयते।
ततोऽव्ययीभावसमासो न्यबन्धि।
अनव्ययमव्ययं भवतीत्यव्ययीभावः।
समासोऽयं द्विविधः -
नित्योऽनित्यश्चेति।
यथा -
उपकृष्णमिति
नित्यं,
बहिर्वनमित्यनित्यं
बहिर्वनादिति प्रयोगदर्शनात्।
प्रायेण पूर्वपदार्थप्रधानोऽयं
समासः। यथा -
निर्मक्षिकमित्यत्र
निरिति अभाववाचकपदं,
तस्य
च समासे प्राधान्यात्सङ्गतिः।
प्रायशब्दग्रहणन्तु न सर्वत्रेति
ज्ञापनार्थम्। यथा -
शाकप्रति,
उन्मत्तगङ्गम्
इति। अत्र च क्रमादुत्तरपदस्यान्यपदार्थस्य
च प्राधान्यं लक्ष्यते।
द्वितीयं
तत्पुरुषप्रकरणम्।
“तत्पुरुषः”(२/१/२२)
इत्यधिकारः।
अत्र पठितैः सूत्रैर्विधीयमानाः
समासाः तत्पुरुषाः इत्याख्यायन्ते।
उत्तरपदेन समं समस्यमानस्य
पूर्वपदस्य विभक्त्यनुसारं
समासस्यास्य नाम भवति। समासोऽयं
प्रायेणोत्तरपदार्थप्रधानः।
यथा -
राज्ञः
पुरुषः -
राजपुरुषः
इत्यत्रोत्ररपदार्थस्य
प्राधान्यं न तु राज्ञः।
अतिमालः इत्यादिषु पूर्वपदार्थस्य
प्राधान्यदर्शनात्प्रायशब्दग्रहणम्।
समासास्योदाहरणं तावत् -
द्वितीयातत्पुरुषः
-
दुःखमतीतो
दुःखातीतः इति। तृतीयातत्पुरुषः
-
नखैर्भिन्नो
नखभिन्नः इति। एवमुत्तरत्राप्यूह्यम्।
समासस्यास्यावान्तरभेदास्तावत्
-
कर्मधारयः,
द्विगुः,
उपमानम्,
उपमितञ्चेति।
यस्मिन् तत्पुरुषसमासे
समस्यमानयोः पदयोरधिकरणं
समानं भवति स कर्मधारयः। यथा
-
नीलञ्चासौ
उत्पलञ्चेति नीलोत्पलम्।
यत्र
समस्यमानयोः पदयोः पूर्वपदं
संख्या भवति तदा द्विगुरित्युच्यते।
यथा -
पञ्चानां
गवां समाहारः -
पञ्चगवमिति।
उपमानशब्दाः
उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिः
समानाधिकरणैः समस्यते। उदाहरणं
-
घन
इव श्यामो घनश्यामः। उपमेयस्योदाहरणं
तावत् -
पुरुषो
व्याघ्र इवेति पुरुषव्याघ्रः।
तृतीयं
बहुव्रीहिप्रकरणम्। “शेषो
बहुव्रीहिः”(२/२/२३)
इत्यधिकारे
विलसद्भिः सूत्रैर्विधीयमानः
समासो बहुव्रीहिरिति कथ्यते।
समासोऽयं प्रायेणान्यपदार्थप्रधानः।
द्वित्राः इत्यादौ
उभयप्राधान्यदर्शनात्प्रायग्रहणम्।
उदाहरणं हि -
वीणापाणिः,
वीणा
पाणौ यस्याः सा वीणापाणिः
सरस्वती,
न
वीणा न वा पाणिः।
अतो
द्वन्द्वप्रकरणम्। “चार्थे
द्वन्द्वः”(२/२/२९)
इत्यनेन
विधीयमानः समासो द्वन्द्वरित्युद्यते।
समासोऽयं प्रायेण उभयपदार्थप्रधानः।
“दन्तोष्ठम्” इत्यत्र समाहारस्य
प्राधान्यावलोकनात्प्रायग्रहणम्।
अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वेति
प्रकरणक्रमन्त्वष्टाध्यायीमनुसृत्यैवाकरोद्भट्टोजिदीक्षितः
अपवादादीनां ज्ञानायेत्युक्तम्।
ततः एकशेषप्रकरणम्। अर्थभेदेऽपि
शब्दैकरूप्ये एकशेष इत्युच्यते।
यथा -
माता
च पिता च पितरौ इत्यत्र पितृशब्द
एवावशिष्यते।
एकशेषस्य
द्वन्द्वे एवान्तर्भावः इति
केचित्,
विग्रहवाक्ये
तुल्यतादर्शनात्। अतः
तदनुषङ्गिकतया द्वन्द्वात्परमेव
तदतिष्ठिपत्।
ततो
विद्यते सर्वसमासशेषप्रकरणम्।
पूर्वप्रतिपादिताना
समासप्रकरणानामुपसंहाररूपेणेदमत्र
समुपास्थापयत्।
समासस्य
मुख्यभेदान् अवान्तरभेदान्
च अवर्णयत्।अपेक्षिताः टजादयः
सामान्यप्रत्ययाश्च तत्र
तत्र समुपन्यस्ताः। सर्वसमासोपयोगिनः
कांश्चिद्विशिष्टप्रत्ययान्
निरूपयितुमारेभे -
समासान्तप्रकरणम्।
यथा -
अचक्षुःपर्यायादक्ष्णोऽच्
विधानम्,
तेन
गवाक्षः इति सिद्धम्।
सामान्यसमासप्रक्रियां
निरूप्य प्रक्रियाविशेषं
दिदर्शयिषुः प्रकरणमिदमत्र
निरूपितवान्। अत्र विशेषस्तावत्
-
समासविधानात्परं
“सुपो धातुप्रातिपदिकयोः”(२/४/७१)
इत्यनेन
प्राप्तो लुङ् न भवति। तर्हि
समासेन किं प्रयोजनमिति
पृच्छायामाह तत्त्वबोधिनीकृत्
-
“समासप्रयोजनमैकपद्यमैकस्वर्यं
विशेषणयोगाभावश्च” इति।
तत
आरब्धं समासाश्रयविधिप्रकरणम्।
यद्यपि केचन विधयः समासनिरूपणावसरे
उक्तास्तथापि कांश्चन
अपेक्षितान् विधीन् निरूपयितुमिदं
प्रसङ्गात्समुपस्थापितम्।
अत्र केचित् समासाश्रिताः
यथा -
ह्रस्वत्वदीर्घत्वणत्वेत्यादयो
विधयः निरूपिताः। क्रमादुदाहरणानि
प्रदर्श्यन्ते -
ब्राह्मणितरा,
अष्टापदम्,
सारिकावणमिति।
तद्धितप्रकरणम्
-
समासप्रपञ्चं
निरूप्य सर्वबृहत्तद्धितप्रकरणविवर्णयिषुरिदमरब्ध।
“तद्धिताः”(४/१/७६)
इत्यधिकारे
पठिताः प्रत्ययाः तद्धितसंज्ञकाः।
अस्याः संज्ञायाः फलं तु
नानाविधं भवति। यथा -
प्रत्ययस्थानां
लशकवर्गाणां लोपो न,
भसंज्ञकानाम्
इवर्ण-अवर्ण-अनां
लोपे निमित्तो भवति तद्धितप्रत्ययः।
न्यासकारो जिनेन्द्रबुद्धिः
तद्धितमन्वर्थसंज्ञां मन्यते।
तेभ्यः (प्रयोगेभ्यः)
हिताः
तद्धिताः इति। तदित्यनेन
लौकिका वैदिकाश्च शब्दाः
परामृश्यन्ते। तत्रैवाणादयो
भवन्ति यत्र च भवन्तस्तेषामुपकारिणो
भवन्ति नान्यत्रेति। तेन
उक्तलक्षणस्य सङ्गतिः।
तद्धितप्रकरणमिदं तु सङ्घातरूपेण
प्रोक्तम्। तद्धितप्रत्ययविधायकानि
बहूनि अवान्तरप्रकरणानि
विद्यन्ते। तेषां नामोल्लेखः
पूर्वमेव कृतः। तत्र तत्र
नामकरणमधिकारदिशा,
येषु
अर्थेषु प्रत्यया भवन्ति
तद्रीत्या वेति बोध्यम्। अपि
च तेषां स्थापनमपि प्रायेण
अष्टाध्यायीक्रमेणैवास्ति।
विस्तरभयादेतेषां प्रकरणानां
वर्णनं न कृतम्।
ततः
स्थापितं द्विरुक्तप्रकरणम्।
एतदपि सुबन्तस्यानुषङ्गिकतया
इहैव वर्णितम्। अस्मिन्
प्रकरणे तत्तदर्थे द्विर्वचनं
विहितम्। यथा -
वीप्सार्थे
-
ग्रामो
ग्रामो रमणीयः इति। इत्थं
सङ्ग्रहेण
सिद्धान्तकौमुदीनिष्ठपूर्वार्धस्थप्रकरणानां
माहात्म्यं क्रमवैशिष्ट्यञ्च
यथा प्रतिभानं व्याख्यातमित्यलमनल्पजल्पनेनेति
शिवम्॥
तथ्यसूत्राणि
१)
म.भा.,
पस्पशाह्निकम्
२)
सं.सा.इ.,
पृष्ठम्-
१९
३)
वै.सि.कौ,
पृष्ठम्
१८७
४)
समर्थः
पदविधिः (२.१.१)
इति
सूत्रस्थं वार्तिकम्
५)
म.भा.
- समर्थः
पदविधिः(२.१.१)
६)
वै.सि.कौ.
पृष्ठम्-५०
७)
समर्थः
पदविधिः २.१.१
इति सूत्रस्थं वार्तिकम्
८)
वै.सि.कौ.
पृष्ठम्-
०००,
वस्तुतस्तु
वैयाकरणमतोन्मज्जनकारिकासु
समासशक्तिप्रकरणे इयं कारिका
वर्तते।
सङ्केताक्षरसूची
१.
अष्टा.
- अष्टाध्यायी
२.
म.भा.
- व्याकरणमहाभाष्यम्
३.
सं.सा.इ.
- संस्कृतसाहित्येतिहासः
४.
वै.सि.कौ.
- वैयाकरणसिद्धान्तकौमुदी।
*****
उपयुक्तग्रन्थसूची
१)
पतञ्जलिः,
व्याकरणमहाभाष्यम्
(मूलमात्रम्,
१-२
खण्डौ),
सम्पा.-आत्मदेवमिश्रः,
चौखम्बा
सुरभारती प्रकाशन,
वाराणसी,
२०१०,
ISBN -९७८-९३-८०३२६-२६-९।
२)
पाणिनिः,
अष्टाध्यायी(पदच्छेद-वृत्ति-वार्तिक-टिप्पणी-सहित),
सम्पा.-
श्रीगोपालदत्तपाण्डेयः,
चौखम्बा
सुरभारती प्रकाशन,
वाराणसी,
२००९।
३)
भट्टोजिदीक्षितः,
वैयाकरणसिद्धान्तकौमुदी(मूलमात्रम्),
सम्पा.-श्रीगोपालदत्तपाण्डेयः,
चौखम्बा
विद्याभवन,
वाराणसी,
२०११(पु.मु.)।
४)
मिश्रः,
रामचन्द्रः,
संस्कृतसाहित्येतिहासः,
चौखम्बाविद्याभवन,
वाराणसी,
२०१०।
CBSE, NCERT इत्यनयोः षष्ठकक्ष्यातः द्वादशकक्ष्यां यावत् संस्कृतपाठ्यपुस्तकानाम् अनुशिक्षणम् (टुटोरियल्स्) नामकाः पाठाः सं. सं. प्रतिष्ठानेन जालपुटे आरोपिताः सन्ति। ते पाठाः छात्राणां कृते, शिक्षकाणां कृते, अभिभावकानां कृते च अत्यन्तम् उपयोगिनः सन्ति। बहुषः कस्याः अपि अन्यस्याः भाषायाः पाठ्यपुस्तकानाम् एतादृशम् अनुशिक्षणं नैव निर्मितम्। वीडियोचित्राणि सहितं निर्माय स्थापितानि सन्ति। अतः भवता एतद् अवश्यमेव द्रष्टव्यम्। तद् अत्र द्रष्टुं शक्यते - https://www.samskrittutorial.in/ एवं दूरभाषा Apps https://play.google.com/store/search?q=samskrit%20tutorial (संस्कृत-अनुशिक्षणम्) Play Store इत्यतः download कुर्वन्तु तथा च भवतां ये छात्राः सन्ति तान् अपि अनुशिक्षणम् इत्यस्य दर्शनाय प्रेरयन्तु तद् तेषां भाषाज्ञानवर्धनाय, पाठयोजनालेखनकौशलवर्धनाय च महते लाभाय भवेत्। केवलं सूचनादानमात्रं न पर्याप्तम्। कक्ष्यायां तद् प्रदर्श्य तदाधारिताः अभ्यासाः अपि कारणीयाः, तदा एव छात्राः तद्विषये गंभीराः भवेयुः।
ReplyDelete