A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Sunday, April 6, 2014

भूषणसारस्य पञ्चमकारिकायाः शाङ्करीटीका


व्यापारो भावना सैवोत्पादना सैव च क्रिया।
कृञोऽकर्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते।।५।।

अथ सामान्यत उक्तं धातोर्व्यापारवाचित्वं साधकबाधकविचारेण द्रढयितुं भूमिकामारचयति - एवमित्यादि। आश्रये तु तिङः स्मृता इत्यादिनिरिक्तरीत्या वाक्यार्थं निरूप्येत्यर्थः। ननु सामान्यतो धातोर्व्यापारवाचित्वकथनानन्तरमवसरसंगत्या साधकबाधकयुक्तिभिस्तद्व्यवस्थापनमेवादावुचितं न वाक्यार्थोपवर्णनमित्याशङ्क्याह – सूचीकटाहेति। यत्र कश्चिल्लोहकारः प्रथमतः कर्तव्यत्वेन प्राप्तमपि कटाहनिर्माणं बह्वायाससाध्यत्वात्परित्यज्य पश्चात् कर्तव्यत्वेन प्राप्तमपि सूचीनिर्माणं स्वल्पायाससाध्यत्वाद् यत्प्रथमं करोति सोऽयं सूचीकटाहन्यायः। लोकव्यवहारेऽपि एकदैव कार्यद्वयप्रसङ्गे लघु कार्यं पूर्वं क्रियते पश्चाच्च महदिति प्रसिद्धमेव। तथा चैतन्न्यायानुसारेण खण्डनीयवादिविप्रतिपत्तीनां स्वल्पत्वाद् दुर्बोधत्वाभावाच्च तन्निराकरणेन वाक्यार्थस्य सुप्रतिपादतया सुगमतया च स एवादौ वर्णितः, न तु धात्वर्थो व्यवस्थापितः। तत्र निराकरणीयवादिविप्रतिपत्तीनां बहुत्वान्नैकविधदुरूहतर्कजालजटिलत्वाच्च तस्य तदानीं दुरधिगमत्वादिति ज्ञेयम्। लडाद्यन्त इति। अत्रान्तशब्दः परसमीपबोधकः। लडादिरन्तः परसमीपो यस्मादित्यतद्गुणसंविज्ञानबहुव्रीहिः। तथा च लडाद्यन्त इत्यस्य धातावित्यर्थः। धातौ भावनाया अवाच्यत्वमित्यन्वयेन धातुनिष्ठवाचकतानिरूपितवाच्यत्वाभावो भावनासंबन्धीति वदतः प्राभाकरादीन् प्रतीत्यर्थः। यद्वा भावनानिष्ठवाच्यतानिरूपितवाचकत्वाभावो धातौ इति वदत इत्यादिरर्थः। भावनाया धातुवाच्यत्वे, तयोः प्रत्ययार्थप्राधान्यमिति न्यायेन तस्याः प्राधान्यानुपपत्त्या धात्ववाच्यत्वमिति हि तेषामाशयः। प्राभाकरादीनित्यादिशब्देन नैयायिकसंग्रहः। यद्यपि फलानुकूलो व्यापारो धात्वर्थ इति नैयायिका मन्यन्ते तथापि नासौ तन्मते भावनाशब्दव्यवहार्यः। एवं च मीमांसकानुद्दिश्य साधकबाधकयुक्तिभिर्भावनाया धातुवाच्यत्वं, नैयायिकान् प्रति धात्वर्थव्यापारस्य भावनापदवाच्यत्वं च द्रढयितुमाह – व्यापारो भावनेति। यो ह्यर्थो व्यापारशब्देनोच्यते स एवार्थो भावना, उत्पादना, क्रियेति शब्दैर्व्यवह्रियते इति कारिकापूर्वार्धस्यार्थः। कीदृशो ह्यर्थो व्यापारपदव्यपदेश्यः? इति चेद्धरिकारिकोक्त्यनुसारेणोच्यते - फूत्कारत्वादितत्तद्रूपेण भासमानैरवयवैर्युक्तः, संकलनात्मिकया बुद्ध्या प्रकल्पितो योऽभेदस्तद्रूपः, यः क्रमजन्मनां बुद्धिस्थानामधिश्रयणादीनां व्यापाराणां समूहः स इति। तादृशार्थवाचकव्यापारपदं भावनादिशब्दैर्विव्रियत इति विव्रियमाणविवरणयोः समानार्थत्वेन धातोर्भावनावाचित्वं सिध्यति। फलव्यापारयोर्धातुरित्युक्तत्वादिति भावः। भावना सैवेत्यत्र सा एव इति पदविभागः। यो हि व्यापारः सैव भावनेत्यर्थः। उद्दश्यप्रतिनिर्देश्ययोरैक्यमापादयत्सर्वनाम तदन्यतरलिङ्गभागित्यभियुक्तोक्तेः। यत्कर्म णै चेत्स कर्तेतिवत्। यद्वा स एवेति पुंलिङ्गनिर्देशोऽस्तु। यो व्यापारः स एव भावनेत्यर्थः। सोऽचि लोपे चेत्पादपूरणमिति स इत्यस्य सोर्लोपे साधुत्वादिति भावः। ननु स्यादेतत्पूर्वोक्तं सर्वं युक्तं, यदि धातोर्व्यापारवाचित्वं सिध्येत्, तत्रैव किं प्रमाणमिति जिज्ञासायां तस्मात्करोतिर्धातोः स्याद्व्याख्यानमित्यग्रे वक्ष्यमाणतया पचति - पाकं करोति, गच्छति - गमनं करोति, इत्येवं व्यापारार्थककृञा पच्यादिधातुविवरणस्यैव प्रमाणत्वमिति प्रदर्शयन्नाह – पचति - पाकमुत्पादयतीत्यादि। ननु व्यापारो भावना सैवेति कारिकायां या क्रिया सैव भावना सैव चोत्पादना, इत्युक्तेऽपि क्रियाया भावनात्वसिद्धौ किमर्थं व्यापारपदं निवेशितमित्यत आह – व्यापारपदं चेति। अयत्नानामिति। कृतिपदवाच्यो यः प्रयत्नस्तद्भिन्नानामपि फूत्कारादिव्यापाराणां तत्तद्विशेषरूपेण भावनापदवाच्यत्वसिद्ध्यर्थं व्यापारपदमुपात्तम्। क्रियाशब्देन तु भावार्थकशप्रत्ययव्युत्पन्नेन कृतिशब्दवद्यत्नार्थकेन कृतेरेव चेतनमात्रनिष्ठाया भावनापदवाच्यत्वं लभ्येत न तु चेतनाचेतनसाधारणानां व्यापाराणामिति भावः। क्रियापदं च तादृशव्यापाराणां धातुवाच्यत्वं क्रियापदवाच्यत्वं च बोधयितुत्यर्थः। अत एवेति। तेन तेन रूपेण व्यापारस्य धातुवाच्यत्वादेव। बोधः सर्वसिद्ध इति। सर्वानुभवसिद्धस्य विशेषरूपेण बोधस्यापह्नवोऽयुक्त इति भावः। एवं व्यापारस्य विशेषरूपेण धातुवाच्यत्वादेव चैत्रः पचतीति वाक्यजन्यबोधदशायां चैत्रः फूत्कारादिमान्न वेति संशयो न जायते, सामान्यरूपेण बोधे तु अस्ति नास्तीत्यन्यतरकोटिनिश्चयाभावेन संदेहो दुर्वार इति भावः। अथ फूत्कारत्वादीनां गुरुत्नान्नानात्वाच्च वाच्यतावच्छेदकत्वस्वीकारोऽयुक्त इति तदपेक्षया लघुत्वादेकत्वाच्च कृतित्वस्यैव धातुवाच्यतावच्छेदकत्वस्वीकार उचित इति नैयायिकसंमतनियमद्वारा धातोः कृतिवाचकत्वं साधयन्नाशङ्कते तटस्थः - न चैवमित्यादिसाध्वीत्यन्तेन। एवमिति। उक्तरीत्या फूत्कारादिव्यापाराणांधातुवाच्यत्वे। एषां - फूत्कारत्वादीनां। शक्यतावच्छेदकत्वे स्वीकृते सतीति शेषः। गौरवेति। तेषां गुरुत्वादनेकत्वाच्चेत्यर्थः। कृतित्वमेवेति। फूत्कारत्वाद्यपेक्षया कृतित्वस्य लघुत्वाज्जातिवाचकत्वाच्चेत्यर्थः। एवकारेण फूत्कारत्वादेर्व्यावृत्तिः। तदवच्छेदकमिति। धातुवाच्यतावच्छेदकं वक्तव्यमित्यर्थः। तथा च विक्लित्यनुकूला कृतिर्धात्वर्थोऽस्त्विति शङ्काभिप्रायः। कृतिश्च यत्न एव। नन्वेवं कृतेर्धातुवाच्यत्वे रथो गच्छतीत्यादावचेतने रथादौ यत्नस्य बाधाद्व्यापारादिप्रतीतिः सर्वानुभवसिद्धा कथं निर्वाह्येत्यत आह – रथो गच्छतीत्यादाविति। जानातीत्यस्य देवदत्त इत्यादिः। आदिपदादिच्छति नश्यतीत्यादिपरिग्रहः। व्यापारत्वादीत्यादिनाश्रयत्वप्रतियोगित्वयोः परिग्रहः। स च लक्षणया इत्यर्थः। नैयायिकरीतिरिति। लकाराणां कृतौ शक्तिर्लाघवान्न तु कर्तरि, कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवादिति मन्यमानैर्नैयायिकैर्व्यापारे आश्रयत्वे वा लक्षणमङ्गीकृत्य यथा रथो गच्छतीत्ययं प्रयोगः साधितस्तद्वत्कृतेर्धात्वर्थत्वेऽपि शङ्ककेन मया साधयितुं शक्य इत्यर्थः। अत्र तटस्थस्य कृतेर्धात्वर्थत्वसमर्थनार्थमेव नैयायिकरीत्यनुसरणं न त्वन्यांशसमर्थन इति बोध्यम्।
अवच्छेदकत्वे हीत्थं नियमः - संभवति लघौ गुरौ तदभाव इति। मानान्तरसिद्धे लघुधर्मेऽवच्छेदकत्वे संभवति सति गुरुधर्मेऽवच्छेदकत्वं न कल्पनीयम्।यथा प्रमेयधूमाभावप्रतियोगिताया अवच्छेदकत्वं प्रमेयधूमत्वसमनियते शुद्धधूमत्व एवाङ्गीक्रियते न तु प्रमेयत्वविशिष्टधूमत्वे, लघुगुरुधर्मयोरुभयोरपि शब्दशक्त्यात्मकमानान्तरसिद्धत्वादिति हि तस्यार्थः, न तु मानान्तरागम्येऽपि लघुधर्मे केवललाघवानुरोधेन तत्स्वीकार्यमिति। ततश्च फूत्कारत्वाद्यपेक्षया कृतित्वस्य लघुधर्मत्वेऽपि मानान्तरगम्यत्वाभावाद्दृष्टान्तबलेन च गुरुधर्मेऽप्यवच्छेदकत्वस्वीकारसम्भवात् प्रकृतस्थले निरुक्तनियमसंगत्यसंभवेनायुक्ता तटस्थाशङ्केत्याशयेनाह – शक्यतावच्छेदकत्वस्यापीति। यथा गङ्गायां घोष इत्यत्र लक्षणयोपस्थितार्थगते गङ्गातीरत्वात्मके गुरुधर्मे लक्ष्यतावच्छेदकत्वं स्वीक्रियते तद्वत्फूत्कारत्वादिगुरुधर्मेऽपि शक्यतावच्छेदकत्वस्वीकारे बाधकाभावादित्यर्थः। तयोर्वैषम्येति। शक्तिलक्षणयोरुभयोरपि पदतदर्थसंबन्धरूपत्वाविशेषेण लक्ष्यतावच्छेदकत्वं गुरुधर्मे शक्यतावच्छेदकत्वं तु न तत्रेत्येव वैलक्षण्यकरणस्य प्रमाणाभावेनानुचितत्वात्पचतीत्यतो विक्लित्यनुकूलो यत्न इति बोधस्यानुभुकानामनुदयाच्च सर्वथायुक्तं तटस्थाशङ्कितं धातोः कृतिवाचकत्वमिति भावः।
ननु न केवललाघवानुरोधेन कृतित्वस्य धातुवाच्यतावच्छेदकत्वमाशङ्कितं किन्तु मानान्तरगम्यत्वसंभवसहकृतेनैव लाघवेनेति सूचयंस्तस्य मानान्तरगम्यत्वसंभवमाशङ्कते - न चेति। अयं भावः - कृञो यत्नार्थकत्वमवश्यमेष्टव्यम्। यत्नजन्यत्वानुसंधानदशायामंव पटः कृत इति कृतव्यवहारादर्शनात्। किं त्वङ्कुरो जात इत्येवमकृतव्यवहारदर्शनात्। इत्थं च पचतीत्येतद्घटकपच्धातोः पाकं करोतीत्येवं यत्नार्थककरोतिना विवरणात्, किं करोतीति यत्नविषयकप्रश्ने पचतीत्युत्तरस्य यत्नार्थकत्वं विनानुपपत्तेश्च यत्न एव धातोरर्थ इति शङ्काभिप्रायः। यत्नश्च कृतिरेव। संभवेदेवं यदि कृञो यत्नार्थकत्वं सुवचं स्यात्, तदेव तु दुर्लभमिति दूरे धातोर्यत्नार्थकत्वकथनमित्यभिप्रेत्याह – रथ इति। अत्र रथपदानुपादाने गमनानुकूलयत्नस्य चैत्रादिचेतननिष्ठस्य विद्यमानत्वेन न तादृशप्रयोगहानिरतो ‘रथः’ इत्युक्तम्। अङ्कुरः कृत इत्येवन्मात्रोक्तौ यत्नापरपर्यायेश्वरीयकृतिजन्यत्वमादाय निरुक्तप्रयोगोपपत्तिरितिरत उक्तं बीजादिनेति। एवं च रथबीजादावचेतने यत्नस्य सर्वथा बाधात्तादृशप्रयोगासंगत्या नैव कृञः यत्नवाचित्वमपि तु व्यापारवाचित्वं विना निरुक्तप्रयोगानुपपत्तेः कृञृः व्यापारवाचित्वमेव तव गले पततीत्यर्थः। न च रथो गमनं करोतीत्यादौ कृञो व्यापारे लाक्षणिकत्वान्न तेन यत्नार्थकत्वभङ्ग इति वाच्यम्। संभवति मुख्यार्थकत्वे लाक्षणिकार्थकल्पनायाः अन्याय्यत्वात्। तथा च बहुशः कृञो व्यापारवाचित्वदर्शनेन व्यापार एव कृञः शक्तिरुचितेति तादृशार्थककरोतिना धातोर्विवरणाद्विवृयमाणविव्रियमाणयोः समानार्थकत्वनियमात् धातोर्व्यापारवाचित्वमवश्यं स्वीकरणीयमित्याशयः। विवरणञ्च तत्समानार्थकपदान्तरेण तदर्थकथनम्। पचतीत्यनेन समार्थकं यत्पदान्तरं पाकं करोतीत्याकारकं तेन पचतीत्यस्य अर्थकर्थनमिति बोध्यम्।

अथ कृञोऽकर्मकतापत्तेरिति कारिकोत्तरार्द्धमवतारयितुं भूमिकामारचयति - किञ्चेत्यादिना। भावनायाः - व्यापाररूपभावनायाः। अवाच्यत्वे - धातुनिरूपितवाच्यत्वाभावे तिङ्निरूपितवाच्यत्वाभावे च सतीत्यर्थः। ततश्च फलमात्रस्य धात्वर्थत्वे पर्यवसन्ने स्वजनकव्यापारव्यधिकरणधात्वर्थफलाश्रयत्वं, धात्वर्थफलाश्रयत्वमेव वा कर्मत्वं वक्तव्यम्। अत्र स्वपदेन फलं ग्राह्यम्। एवञ्च उत्पत्त्यर्थकात् भूधातोस्तदनुकूलव्यापारवाचके णिच्प्रत्यये कृते घटं भावयतीत्यत्र उत्पत्तिरूपधात्वर्थफलाश्रयत्वेन कर्मत्वाद्यथा घटपदोत्तरं द्वितीया भवति तद्वद् घटो भवतीत्यत्रापि उत्पत्तिरूपधात्वर्थफलाश्रयत्वेन कर्मत्वाद्घटोपदोत्तरं द्वितीयापत्तिः स्यात्। अत्रेदं बोध्यम्। णिजन्तस्थले स्वजनकेत्यादि प्रथमं कर्मलक्षणं, द्वितीयं तु शुद्धे णिजन्तं चेति। घटो भवतीत्यत्र घटपदोत्तरं द्वितीयापत्तिं वारयितुं शङ्कते - न चात्र घटस्येति। कर्मसंज्ञाया बाधादिति। घटो भवतीत्यत्र घटस्य कर्तृत्वेन प्रतीतेर्घटस्योत्पत्तिरूपफलाश्रयत्वऽपि परया कर्तृसंज्ञया कर्मसंज्ञाया बाधान्न द्वितीयापत्तिरिति भावः शङ्ककस्य। यदुक्तं घटस्य कर्तृत्वं तन्न संभवतीत्याह – अनुगतेति। चेतनाचेतनैतदुभयवृत्तिकर्तृत्वलक्षणस्य त्वया वक्तुमशक्यतया घटस्य कर्तृत्वाभावाद्दुर्निवारा द्वितीयेत्यर्थः। घटस्याकर्तृत्वमेव प्रतिपादयति - कृत्याश्रयत्वस्येत्यादि। यदि तत्तद्धात्वर्थफलानुकूलकृत्याश्रयत्वं कर्तृत्वमुच्यते तर्हि प्रयत्नापरपर्यायायाः कृतेश्चेतनमात्रनिष्ठधर्मत्वेनाचेतने तदभावेन घटोऽस्तीत्यादावतिव्याप्तिः। कारकचक्रेति। प्रकृतधातूपात्तक्रियान्वययोग्यकारकसमुदायप्रवर्तकत्वं तदिति चेत्स्थाली पचति असिश्छिनत्तीत्यादौ स्थाल्यादेरचेतनस्य कारकचक्रप्रवर्तकत्वाभावेनाव्याप्तिरेव। अभावादिति। घटस्याचेतनत्वात्कृत्याश्रयत्वस्य कारकचक्रप्रयोक्तृत्वस्य चाभाव इति भावः। तथा च कृत्यादिमत एव कर्तृसंज्ञाया उक्तत्वात्कृत्याद्यभावे कर्तृसंज्ञाप्राप्त्यभावेन कर्मसंज्ञाया अनपवादत्वाद्द्वितीयापत्तिर्दुर्वारेत्यर्थः। मम मते धातूपात्तव्यापाराश्रयत्वेन कर्तृत्वान्न द्वितीया किन्तु प्रथमैवेति न दोषः। एवं धातोर्व्यापारवाचकत्ववादिनैयायिकमतं निराकृत्य फलं धात्वर्थः, व्यापारः प्रत्ययार्थ इति वादिनं मीमांसकं प्रत्याचष्टे - धात्वर्थानुकूलेति। अयं भावः - स्वतन्त्रः कर्तेति सूत्रे स्वातन्त्र्यं - धात्वर्थफलानुकूलव्यापाराश्रयत्वं, तच्च घटे उत्पत्त्यनुकूलव्यापारसत्त्वेनाबाधितमेवेति तादृशस्वातन्त्र्यमेव कर्तृत्वं मया मन्यत इति। तदपि न, अतिव्याप्तित्वादित्यत आह – कारकमात्रेति। मात्रशब्दः कार्त्स्न्ये।


No comments:

Post a Comment