A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Wednesday, March 5, 2014

भूषणसारे तृतीयचतुर्थकारिकयोः शाङ्करीटीका


अथ क्व फले आश्रयान्वयः क्व च व्यापार इति प्रसङ्गसङ्गत्या तत्तात्पर्यग्राहकं वक्तुं भूमिकामारचयति - नन्वाख्यातस्येत्यादिना। ‘आश्रये तु तिङः स्मृताः’ इत्यनेनाख्यातस्य नाम केवलस्य तिङः कर्तृकर्मणोः शक्तिरुक्ता। ततश्च पचतीत्यत्र तिपः सकाशात्कर्तृकर्मोभयबोध आपद्येत। उभयत्रापि शक्तेः सत्त्वादित्यर्थः। ननु सकृदुच्चारितः शब्दः सकृदर्थं गमयति, इति अन्याय्यं चानेकार्थत्वं विना प्रमाणमिति च न्यायान्नैकदैवार्थद्वयबोध इत्यत आह – कर्तृमात्रबोधवदिति। मात्रशब्देन कर्मार्थस्य व्यावृत्तिः। कर्ममात्रस्यापीति। अत्र मात्रशब्दः कर्त्रर्थव्यावर्तकः। बोधापत्तिरिति। यथा अनेकार्थकादपि हर्यादिशब्दात्कदाचित्सिंहमात्रस्य कदाचिच्चाश्वमात्रस्य बोधो जायते तात्पर्यग्राहकस्य प्रकरणादेः समानत्वात्तथा पचतीत्यत्रापि कदाचित्कर्ममात्रस्यापि बोधापत्तिः शक्तेः समानत्वादिति भावः। तात्पर्यग्राहकमिति। तत्तदर्थप्रतीतिर्भवत्वितीच्छयोच्चरितत्वरूपतात्पर्यविषयकग्रहजन्मित्यर्थः।
शास्त्रप्रवर्तकाचार्यानुभवसिद्धतात्पर्यग्राहकमिति यावत्। तेन कस्यचिदाधुनिकस्य पच्यत इत्यत्र कर्तृबोधे तात्पर्यसत्त्वे अपि पाणिन्याद्याचार्यतात्पर्याभावान्न कर्तृबोधः, किन्तु कर्मबोध एवेत्यत आह – फलव्यापारेति। तत्रेति तयोरित्यर्थकम्। ततश्य तयोः फलव्यापरयोर्मध्य इत्यर्थः। ननु यदि तङ् फल आश्रयतान्वयं द्योतयेत्तर्हि एधते निविशत इत्यादावाख्यातार्थाश्रयस्य फलेऽन्वयापत्त्यातिप्रसङ्गोऽतोऽत्रोपसर्गप्रयुक्तत्वाभावविशिष्टः परस्मैपदिभ्य एवोत्पन्नस्तङ ग्राह्यः। यगादिसमभिव्याहृतस्तङिति यावत्। तेन निरुक्तादिस्थले न दोषः। यगिति। ननु सुख्यति दुःख्यतीत्यादिकण्ड्वादियगन्तस्थलेऽतिव्याप्तिवारणाय तङ्समभिव्याहृतो यग्गृह्यते तथापि कण्डूयते इत्यादौ दोष एवेति तन्निरासाय सार्वधातुके यगिति सूत्रविहित एव यगत्र ग्राह्यः। एवं चिणपि ‘चिण्भावकर्मणोः’ इति विहित एव ग्राह्यः। तेन दीपजनेति चिणन्तेऽदीपीत्यादौ नातिप्रसङ्गः। आदय इति। आदिना चिणवदिट्। यथा कारिष्यते घट इत्यादौ। तथा ‘कुषिरञ्जोः प्राचां...’ इति विहिते श्यन्परस्मैपदे अपि द्योतके। यथा रज्यति घटः स्वयमेवेत्यादौ। लिडादावप्युक्तरीत्या प्रकरणादिकमेव द्योतकत्वेनानुसंधेयम्। तङादयः कर्मद्योतकाः शबादयश्च कर्तृद्योतका इत्येवं व्यवहारोपपत्तय आह – फलान्वय्याश्रयस्येत्यादिना समुदायार्थ इत्यन्तेन। तात्पर्यं ग्राहयन्तीति। तत्तदर्थप्रतीतीच्छां जनयन्तीत्यर्थः।।३।।
निरुक्ततात्पर्यग्राहकत्वमाक्षिपति - एवमिति। तङादीनां फले, शबादीनां च व्यापारे आश्रयतान्वयद्योतकत्वे सतीत्यर्थः। व्यभिचार इति। कार्यकारणभावभङ्गः। अबोधि सः, पच्यते ओदनः स्वयमेवेत्यादौ च यगादिसत्त्वेऽपि फले आश्रयान्वयाभावाच्छबादीनामसत्त्वेऽपि व्यापारे आश्रयान्वसत्त्वाच्च कारणसत्त्वे कार्याभावरूपोऽन्वयव्यभिचारः, कार्यसत्त्वे कारणाभावरूपो व्यतिरेकव्यभिचारश्चायातीत्यर्थः। व्यभिचारमेव स्पष्टयितुं तत्साधनक्रियां विशदयति - कर्मणः कर्तृत्वेति। यदा सौकर्यातिशयं द्योतयितुं कर्तुः पुरुषस्य व्यापारो न विवक्ष्यते किं त्वोदनादिकर्मगत एव व्यापारो विक्लित्त्याद्यनुकूलत्वेन विवक्षतस्तदा पच्-धातोः कर्तरि लकारे कृते ‘कर्मवत्कर्मणा...’ इति शास्त्रेण कार्यातिदेशविधानाद्यगात्मनेपदादीनां सत्त्वेऽपि आख्यातात्कर्तुरेव बोधात् आख्यातार्थाश्रयस्य व्यापार एवान्वयः न तु फले इत्यर्थः। तथा अबोधीत्यत्रापि बुध्यतेः कर्तरि लुङि तत्स्थाने आत्मनेपदप्रथमपुरुषैकवचनतादेशे दीपजनेत्यादिना चिणि चिणो लुगिति तादेशस्य लुकि सत्यत्रापि नाश्रयस्य फलेऽन्वयः। किन्तु व्यापार एवेत्यत आह – उत्सर्गोऽयमित्यादि। कर्मकर्त्रिति। पच्यत ओदनः स्वयमेवेत्यादौ, आदिपदात्क्रमादमुं नारद इत्यबोधि स इत्यादौ च विपर्ययात् - वैपरीत्यात् तङादिः कर्मद्योतकः शबादिश्च कर्तृद्योतक इत्येवंरूपः पूर्वोक्तोऽर्थः, उत्सर्गः उत्सृज्यते क्वचित्त्यज्यते इति व्युत्पत्त्या सामान्यभूतो बहुषूदाहरणेषु तथा सत्त्वात्प्रायिको न तु सार्वत्रिक इत्यर्थः। तस्मात् - पूर्वोक्तार्थस्यासार्वत्रिकत्वात्। यथोचितं - अननुगतमपि व्युत्पत्त्यनुसारित्वादुचितमिति यावत्। यथागमम् - शास्त्रानुसारेणैव द्योतकत्वं स्वीकर्तव्यमिति भावः। एतदेव शाब्दबोधवर्णनेन स्पष्टयितमाह – अत्र हीति। नारद इत्यबोधीत्यस्य शाब्दबोधं प्रदर्शयन्नाह – सामान्येति। पूर्वं त्विषां चय इति, ततः शरीरीति, ततः पुमानिति ततो नारद इति क्रमिकज्ञानमध्ये पूर्वं पूर्वं सामान्यज्ञानमुत्तरोत्तरं च विशेषज्ञानमिति बोध्यम्। एकनारदेति। एको यो नारदस्तद्विषयकं ज्ञानमित्यर्थः। अत्र निपातेनेति शब्देन कर्मणोऽभिहितत्वान्न नारदशब्दोत्तरं द्वितीया। भट्टनागेशमते तु ‘नारदः’ इत्याकारकं यज्ज्ञानं तदनुकूल इत्यादिर्बोधोऽवगन्तव्यः। तत्र नारद इति प्रथमान्तस्याप्रातिपदिकत्वान्न द्वितीयाप्राप्तिरपि। क्वचिन्निपातेनेति तु ते नानुमन्यन्ते। तिङ्कृत्तद्धितसमासानामेव भाष्ये परिगणनात्। यदुक्तं यथागममिति तत्तात्पर्यमाह – सकर्मकेत्यादि। व्यापारव्यधिकरणफलवाचको यो धातुस्तत्समभिव्याहृतं भावकर्तृसाधारणभावकर्मणोः, सार्वधातुके यगित्यादिसूत्रविहितं यच्चिण्यगादिकं तद्द्योतकमिति भावः। पच्यते ओदनः स्वयमेव कर्मवदित्यनेन शास्त्रातिदेशपक्षे भावसाधारणविधिविहितयगात्मनेपदयोः सत्त्वात्फल एवाश्रयान्वयकर्तव्यतारूपातिव्याप्तिः स्यात्। तत्परिहाराय सकर्मकेत्यादि समभिव्याहृतान्तं विशेषणं दत्तम्। तथा च कर्मकर्तृधातोः प्रायेणाकर्मकत्वादत्रत्ययगात्मनेपदयोः सकर्मकधातुसमभिव्याहृतत्वाभावान्न तयोः कर्मद्योतकतेति भावः। अबोधि श्रीकृष्णः इत्यादौ चिणः सकर्मकधातुसमभिव्याहृतत्वेनातिप्रसङ्गः स्यात्तद्वारणाय भावसाधारणेत्यादि यगादेर्विशेषणम्। ततश्चाबोधि इत्यत्रत्यचिणो दीपजनेति विहितत्वेन भावसाधारणविधिविधेयत्वाभावान्न तस्य कर्मद्योतकत्वमित्यर्थः। चिण्यगादिविधायकतत्तच्छास्त्रज्ञानरहितस्य तु प्रकरणादिकमेव तात्पर्यग्रहकम्। एवं लिडादौ अपि बोध्यम्। अन्यथा पेचे इत्यत्र कर्तृकर्मणोरुभयोरपि समानत्वात्तात्पर्यग्राहकदौर्लभ्येनानावस्था प्रसज्येत। एतेनाख्यातस्य कर्मकर्तृभावेषु शक्तिसत्त्वेन पचतीत्यादौ सर्वत्रैव भावना यथा प्रतीयते तद्वत्कर्मकर्तृभावानां सर्वत्र प्रतीत्यापत्तिस्तेषु शक्तिसत्त्वादिति परास्तम्। यगादेस्तात्पर्यग्राहकत्वकथनादिति बोध्यम्।।४।।


No comments:

Post a Comment