A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Wednesday, June 23, 2021

रसगङ्गाधरस्य लघुप्रश्नाः

रसगङ्गाधरस्य लघुप्रश्नाः

रसगङ्गाधरस्य लघुप्रश्नाः


1. जगन्नाथस्य गुरोः नाम किम्? – लक्ष्मीकान्तपेरुभट्टः

2. लक्ष्मीकान्तः कस्मात् मीमांसाशास्त्रमधीतवान्? – खण्डदेवात्

3. पेरुभट्टः कस्मात् न्यायम् अधीतवान्? – पेरुभट्टः महेन्द्रात् न्यायम् अधीतवान्।

4. किं प्रयोजनकं काव्यम्? – कीर्ति-परमाह्लाद-गुरुराजदेवताप्रसादाद्यनेकप्रयोजनकं काव्यम्।

5. जगन्नाथप्रोक्तं काव्यलक्षणं लिखत। – रमणीयार्थप्रतिपादकः शब्दः काव्यम्।

6. का नाम रमणीयता? – रमणीयता हि लोकोत्तराह्लादजनकज्ञानगोचरता।

7. किं नाम लोकोत्तरत्वम्? – लोकोत्तरत्वं हि आह्लादगतः चमत्कारत्वापरपर्यायः अनुभवसाक्षिकः जातिविशेषः।

8. कीदृशव्यवहारात् ज्ञायते यत् शब्दार्थयुगलं न काव्यम्? – काव्यमुच्चैः पठ्यते, काव्यादर्थोऽवगम्यते इत्यादिव्यवहारात् ज्ञायते शब्दार्थयुगलं न काव्यम्।

9. रसवदेव काव्यम् इति साहित्यदर्पणस्य निर्णयः किमर्थम् असङ्गतः? – तथा निर्णये वस्त्वलङ्कारप्रधानानां काव्यानां काव्यत्वं न सिद्ध्येत्।

10. जगन्नाथमते काव्यस्य कारणं किम्? – जगन्नाथमते काव्यस्य कारणं कविगता केवला प्रतिभा।

11. का नाम प्रतिभा? – प्रतिभा नाम काव्यघटनानुकूलशब्दार्थोपस्थितिः।

12. प्रतिभायाः को हेतुः? – प्रतिभाया हेतुः क्वचिद् देवतामहापुरुषप्रसादादिजन्यम् अदृष्टम्, क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासौ।

13. प्रतिभां प्रति अदृष्टादयः कथं कारणीभूताः? – तृणारणिमणिन्यायेन

14. काव्यं कतिविधम्? – चतुर्विधम् – उत्तमोत्तमम्, उत्तमम्, मध्यमम्, अधमम्

15. उत्तमोत्तमकाव्यस्य किं लक्षणम्? – शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थम् अभिव्यङ्क्तः तद् उत्तमोत्तमं काव्यम्।

16. उत्तमोत्तमकाव्यस्य उदाहरणं दीयताम्।

शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्।

दयिता दयिताननाम्बुज दरमीलन्नयना निरीक्षते॥ इति।

17. उत्तमकाव्यस्य किं लक्षणम्? – यत्र व्यङ्ग्यम् अप्रधानमेव सच्चमत्कारकारणं तद् उत्तमकाव्यम्।

18. उत्तमकाव्यस्य उदाहरणं प्रस्तूयताम्।

राघवविरहज्वालासंतापितसह्यशैलशिखरेषु।

शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय॥ इति।

19. मध्यमकाव्यस्य किं लक्षणम्? – यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारः तत् मध्यमकाव्यम्।

20. अधमकाव्यस्य लक्षणं किम्? – यत्र अर्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तद् अधमं काव्यम्।

21. अधमकाव्यस्य उदाहरणं प्रयच्छत।

मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे।

गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः॥ इति।

22. अधमाधमस्य किं लक्षणम्? – यत्र अर्थचमत्तिसामान्यशून्या शब्दचमत्कृतिः तत् अधमाधमम्।

23. अधमाधमं किमर्थं काव्यविधासु न गण्यते? – रमणीयार्थप्रतिपादकशब्दतारूपकाव्यसामान्यलक्षणेन अधमाधमम् अनाक्रान्तम् इत्यतः काव्यविधासु न गण्यते।

24. ध्वनिः कतिविधः? – द्विविधः – अभिधामूलः, लक्षणामूलः।

25. अभिधामूलः कतिविधः? – त्रिविधः – वस्तुध्वनिः, रसध्वनिः, अलङ्कारध्वनिः

26. लक्षणामूलः कतिविधः? – द्विविधः – अत्यन्ततिरस्कृतवाच्यः अर्थान्तरसङ्क्रमितवाच्यश्च

27. जगन्नाथमते को नाम रसः? – रत्याद्यवच्छिन्ना भग्नावरणा चिदेव रसः

28. कति रसाः? – नव

29. प्राचां मते वीररसः कतिविधः? – चतुर्विधः

30. भक्तेः क्व अन्तर्भावः? – भावे

31. कति रसदोषाः जगन्नाथेन निरूपिताः? – त्रयोदश

32. द्रुतेः प्रयोजकः कः? – माधुर्यम्

33. श्लेषः कः? - शब्दानां भिन्नानां अप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषः

34. श्लेषस्य अपरं नाम किम्? – गाढत्वम्

35. का समता? - उपक्रमादासमाप्ते रीत्यभेदः समता

36. का उदारता? – कठिनवर्णघटनारूपविकटत्वलक्षणोदारता

37. ओजः कतिविधम्? – पञ्चविधम्

38. किं नाम भावत्वम्? – विभावादिव्यज्यमानहर्षाद्यन्यतमत्वं भावत्वम्

39. हर्षादयः कति? – चतुस्त्रिंशत्

40. कः हर्षः? - इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः

41. कोऽमर्षः? - परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूतश्चित्तवृत्तिविशेषः

42. किं नाम रसाभासत्वम्? - अनुचितविभावालम्बनत्वं रसाभासत्वम्

43. को भावाभासः? – अनुचितविषयो भावाभासः

44. को नाम भावोदयः? – भावस्योत्पत्तिः

45. भावसन्धेः स्वरूपं लिखत। – भावसंधिरन्योन्यानभिभूतयोरन्योन्याभिभवनयोग्ययोः सामानाधिकरण्यम्

46. किं नाम भावशबलत्वम्? – भावानां बाध्यबाधकभावमापन्नानां उदासीनानां वा व्यामिश्रणम्

*****

No comments:

Post a Comment