A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Friday, January 22, 2021

List of Strīpratyaya – स्त्रीप्रत्ययानां तालिका

List of Strīpratyaya – स्त्रीप्रत्ययानां तालिका

टाप्

सूत्रम्/वार्तिकम्

उदाहरणम्

अजाद्यतष्टाप्

अजा, खट्वा, अश्वा, चटका, मूषिका, बाला, होढा, वत्सामन्दा, विलाता, क्रूञ्चा, उष्णिहा, देवविशा, ज्येष्ठा, कनिष्ठा, मध्यमा, कोकिला

सम्भस्त्राजिनशणपिण्डेभ्यः फलात् (वा.)

सम्फला, भस्त्रफला

सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् (वा.)

सत्पुष्पा, प्राक्पुष्पा, प्रत्यक्पुष्पा

शूद्रा चामहत्पूर्वा जातिः (वा.)

शूद्रा

मूलान्नञः (वा.)

अमूला

टाबृचि

एकपदा ऋक्, द्विपदा

डाप्

सूत्रम्/वार्तिकम्

उदाहरणम्

डाबुभाभ्यामन्यतरस्याम्

सीमा, दामा

चाप्

सूत्रम्/वार्तिकम्

उदाहरणम्

यञश्चाप्

आम्बष्ठ्या, कारीषगन्ध्या

षाद्यङश्चाब्वाच्यः (वा.)

शार्कराक्ष्या, पौतिमाष्या

आवट्याच्च

आवट्या

सूर्याद्देवतायां चाब्वाच्यः

सूर्या (सूर्यस्य देवता स्त्री), मनुष्यस्त्री तु सूरी - ङीष् –

पुंयोगादाख्यायाम् इति सूत्रेण

ङीप्

सूत्रम्/वार्तिकम्

उदाहरणम्

ऋन्नेभ्यो ङीप्

कर्त्री, दण्डिनी, अन्तर्वत्नी, पतिवत्नी, वीरपत्नी, सपत्नी

उगितश्च

भवती, पचन्ती

वनो र च (वन् - ङ्वनिप्, क्वनिप्, वनिप्)

अतिसुत्वरी, अतिधीवरी, शर्वरी

पादोऽन्यतरस्याम्

द्विपदी

*टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः

कुरुचरी, नदी, सौपर्णेयी, ऐन्द्री, औत्सी,

पञ्चतयी, यादृशी

नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् (वा.)

स्त्रैणी, पौंस्नी, शाक्तीकी, आढ्यङ्करणी, तरुणी, तलुनी

यञश्च

गार्गी

वयसि प्रथमे

कुमारी, वधूटी, चिरण्टी

द्विगोः

त्रिलोकी

पुरुषात् प्रमाणेऽन्यतरस्याम्

द्विपुरुषी

बहुव्रीहेरूधसो ङीष्

कुण्डोध्नी

संख्याऽव्ययादेर्ङीप्

द्व्यूध्नी, अत्यूध्नी

दामहायनान्ताच्च

द्विदाम्नी, द्विहायनी

अन उपधालोपिनोऽन्यतरस्याम्

 

नित्यं संज्ञाच्छन्दसोः

सुराज्ञी

केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च

केवलीः, मामकी, भागधेयी, पापी, अपरी, समानी,

आर्यकृती, सुमङ्गली, भेषजी

पूतक्रतोरै

पूतक्रतायी

वृषाकप्यग्निकुसितकुसीदानामुदात्तः

वृषाकपायी, अग्नायी, कुसितायी, कुसिदायी

मनोरौ वा

मनायी (मनावी, मनुः) साकल्येन त्रीणि रूपाणि मनोः स्त्री– मनायी, मनावी, मनुः

वर्णादनुदात्तात्तोपधात्तो नः

एनी, रोहिणी

पिशङ्गादुपसङ्ख्यानम् (वा.)

पिशङ्गी

छन्दसि क्नमेके (वा.)

असिक्नी, पलिक्नी

दिक्पूर्वपदान्ङीप्

प्राङ्मुखी

ङीन्

 

सूत्रम्/वार्तिकम्

उदाहरणम्

 

शार्ङ्गरवाद्यञो ङीन्

शार्ङ्गरवी, बैदी

 

नृनरयोर्वृद्धिश्च

नारी

 

ऊङ्

सूत्रम्/वार्तिकम्

उदाहरणम्

ऊङुतः

कुरूः

बाह्वन्तात्संज्ञायाम्

भद्रबाहूः

पङ्गोश्च

पङ्गूः

श्वशुरस्योकाराकारलोपश्च (वा.)

श्वश्रूः

ऊरूत्तरपदादौपम्ये

करभोरूः

संहितशफलक्षणवामादेश्च

संहितोरूः, शफोरूः,

लक्षणोरूः, वामोरूः

सहितसहाभ्यां चेति वक्तव्यम् (वा.)

सहितोरूः, सहोरूः

संज्ञायाम्

कद्रूः, कमण्डलूः

ति

 

सूत्रम्/वार्तिकम्

उदाहरणम्

 

यूनस्तिः

युवतिः

 

 

ङीष्

सूत्रम्/वार्तिकम्

उदाहरणम्

अन्यतो ङीष्

कल्माषी, सारङ्गी

षिद्गौरादिभ्यश्च

नर्तकी, गौरी, मत्सी

अनडुहः स्त्रियाम् आम् वा (वा.)

अनड्वाही, अनडुही

*जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपना-कृत्रिमाश्राणास्थौल्यवर्णानाच्छादना-योविकारमैथुनेच्छाकेशवेशेषु

जानपदी, कुण्डी, गोणी, स्थली, भाजी, नागी, काली, नीली, कुशी, कामुकी, कबरी

शोणात्प्राचाम्

शोणी

वोतो गुणवचनात्

मृद्वी

बह्वादिभ्यश्च

बह्वी

कृदिकारादक्तिनः (वा.)

रात्री, रात्रिः

सर्वतोऽक्तिन्नर्थादित्येके(वा.)

शकटी, शकटिः

पुंयोगादाख्यायाम्

गोपी, शूद्री,

*इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्

इन्द्राणी, हिमानी

क्रीतात् करणपूर्वात्

वस्त्रक्रीती

क्तादल्पाख्यायाम्

अभ्रलिप्ती

बहुव्रीहेश्चान्तोदात्तात्

ऊरुभिन्नी

अस्वाङ्गपूर्वपदाद्वा

सुरापीती

*स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्

अतिकेशी

नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च

तुङ्गनासिकी

पुच्छाच्च (वा.)

सुपुच्छी

कबरमणिविषशरेभ्यो नित्यम्(वा.)

कबरपुच्छी

उपमानात्पक्षाच्च पुच्छाच्च (वा.)

ऊलूकपक्षी, ऊलुकपुच्छी

वाहः

दित्यौही

सख्यशिश्वीति भाषायाम्

सखी, अशिश्वी

*जातेरस्त्रीविषयादयोपधात्

तटी

पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च

ओदनपाकी, शङ्कुकर्णी, शालपर्णी, शङ्खपुष्पी

इतो मनुष्यजातेः

दाक्षी

बहुव्रीहेरूधसो ङीष्

कुण्डोध्नी

 

No comments:

Post a Comment