A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Monday, November 18, 2013

काव्यलक्षणविचारः (निबन्धोऽयं "प्रज्ञानम्” इति पत्रिकायां प्रकाशितो वर्तते)

काव्यलक्षणविचारः

श्रीमन्त-भद्रः


यस्यालीयत शल्कसीम्निः जलधिः, पृष्ठे जगन्मण्डलं,
दंष्ट्रायं धरणी, नखे दितिसुताधीशः, पदे रोदसी।
क्रोधे क्षत्रगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो,
ध्याने विश्वमसावधार्मिककुलं, कस्मैचिदस्मै नमः।।1

    वर्तते एका प्रसिद्धा श्रुतिः - “पश्य देवस्य काव्यं न ममार न जीर्यति”2 इति। तत्र परमात्मा कविरिति स्तूयते। किमर्थं तर्हि श्रूयते महाभारतरामायणरघुवंशादि काव्यमिति। कविकर्म काव्यमिति खलु नयः। तस्माद् व्यासवाल्मीकिकालिदासादि-कविकर्माणि तानि काव्यानि इति यथार्थमेव। तस्य काव्यस्य तदङ्गानां रसरीतिगुणालङ्कारादीनां च लक्षणनियमादिप्रतिपादकं शास्त्रं भवति अलङ्कारशास्त्रम्। भाषायां व्युत्पत्त्यर्थं यथा व्याकरणमपेक्ष्यते तथैव काव्ये नैपुण्यसाधनायालङ्कारशास्त्रम्। यथा काव्ये नैपुण्यायालङ्कारशास्त्रमपेक्षितन्तथैव वाक्यदोषदृष्ट्यै अप्यावश्यकम्।यो व्याकरणादिकं जानाति परन्तु अलङ्कारादिकं न वेत्ति तस्य काव्ये पूर्णज्ञानमसम्भवमेव। अलङ्कारादिकं तु अलङ्कारशास्त्रनिर्भरमेवेति नास्त्यत्र संशयः। अत एव राजशेखरेण शास्त्रस्यास्य सप्तमं वेदाङ्गत्वमङ्गीकृतम्। तथा च निगदितम् - “उपकारकत्वादलङ्कारः सप्तममङ्गमिति यायावरीयः” इति। अलङ्कारनिबन्धकर्त्तारः प्राचीना अर्वाचीनाश्चाचार्याः बहव आसन्। ते हि - भरतमुनि-भामह-दण्डि-वामन-आनन्दवर्धन-अभिनवगुप्त-मम्मट-विश्वनाथ-अप्पयदीक्षित जगन्नाथादयः इति।नाट्यशास्त्र-काव्यालङ्कार-काव्यादर्श-काव्यालङ्कारसूत्रवृत्तिध्वन्या-लोक-लोचन-काव्यप्रकाश-साहित्यदर्पण-कुवलयानन्द-रसगङ्गाधरादयो हि तेषां ग्रन्थाः। तत्र आचार्याः स्वग्रन्थे काव्यस्वरूपप्रतिपादकलक्षणं प्रत्यपादयन्।
    काश्मीरनिवासिनो भामहस्य काव्यालङ्कारग्रन्थे काव्यस्वरूपबोधकलक्षणं भवति - “शब्दार्थौ सहितौ काव्यम्” इति। तत्र हि शब्दः अर्थश्च इत्युभयं मिलितं सदेव कमप्याह्लादं जनयति, न केवलः शब्दः, नापि वा केवलोऽर्थः।
अलङ्कारसम्प्रदास्य द्वितीय आचार्यो भवति दण्डी। तेषां स्वग्रन्थे3 निरूपितं काव्यलक्षणं तावत् - “शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली” इति। तावदिति पदं वाक्यालङ्करणाय प्रयुज्यमानं ज्ञेयम्,तेन च अभिलषिताः सरसतया मनोहरतया च वर्णयितुमुद्दिष्टः ये अर्थाः कविप्रतिभया प्रतिफलिताः सुन्दराः पदार्थाः तैर्व्यवच्छिन्नः शब्दसमूहः काव्यशरीरम्। इष्टार्थयुक्तः पदसमुदयः काव्यमिति यावत्।
    वामनो जयापीडनाम्नः काश्मीरराजस्य राष्ट्रकूटवंशस्य गोविन्दतृतीयस्य च सभापण्डितः सचिवान्यतमश्चासीत्। तेन प्रतिपादितं लक्षणं भवति - “काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोः वर्तते”4 इति। अर्थस्तावत् लिलक्षयिषितगुणालङ्कार-संस्कृतशब्दार्थयुगलवाची नपुंसकलिङ्गः काव्यशब्दः इत्यर्थः। अत्र गुणशब्दैः ओजःप्रमुखादिः गुणो गृह्यते। अलङ्कारशब्दैः यमकोपमादयः स्वीक्रियन्ते।संस्कृतयोः नाम सम्यक्तयालङ्कृतयोः। वामनेनापि शब्दे चार्थे चोभयत्र काव्यत्वमभ्युपगम्यते।
    आनन्दवर्धनः काश्मीरक्षितिपालस्यावन्तिवर्मणः सभापतिरासीत्। तैः कृतं लक्षणमस्ति - “काव्यस्यात्मा ध्वनिः”5 इति। ध्वन्यते शब्दवाच्यार्थापेक्षयाधिकचम-त्कारितया प्रतीयते योऽर्थः स ध्वनिरिति योगमर्यादया व्यङ्ग्यविशेषो ध्वनिरित्युच्यते। ध्वनिशब्दो व्याकरणादेव स्वीकृतः न तु स्वतन्त्रः, केवलमिदमेव वैशिष्ट्यं यद् वैयाकरणैः स्फोटात्मकस्य शब्दस्यैवाभिधानं ध्वनिरिति गृहीतम्, परन्तु आलङ्कारिकैः शब्दार्थयुगलस्येति बोध्यम्। ध्वनिकारैस्तु ध्वनेः पञ्च अर्थाः प्रपञ्चिताः। तथाहि ध्वन्यत इति ध्वनी रसादिरर्थः। ध्वनतीति ध्वनिः शब्दवाच्यादिरर्थो वा। ध्वन्यतेऽस्मिन्निति ध्वनिः शब्दादिगता शक्तिः। ध्वननं ध्वनी रसादिप्रतीतिः, ध्वन्यतेऽस्मिन्निति ध्वनिः काव्यमिति।
    ध्वनिप्रस्थानस्य ध्वन्यालोकलोचनाभ्यां परिष्कृते सत्यपि तद्विरोधाय कुन्तकाचार्यः “वक्रोक्तिजीवितम्” नाम वक्रोक्तिसम्प्रदायस्य प्रधानं ग्रन्थं रचयामास। तैः प्रस्तुतं लक्षणं तावत् - “शब्दार्थौ सहितौ वक्रकविव्यापारशालिनि।
बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि।।”इति।
वाचको वाच्यश्च द्वौ सम्मिलितौ काव्यम्। तेन च कविकौशलकल्पितकमनीयातिशयः शब्द एव केवलं काव्यमिति, रचनावैचित्र्यचमत्कारकारि वाच्यमेव केवलं काव्यमिति च पक्षद्वयमपि परास्तं भवति।
    चतुर्वर्गफलदायकस्य काव्यस्य लक्षणं काव्यप्रकाशकारेण मम्मटेनेत्थमवादीत् - “तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि” इति। शब्दार्थयुग्मं काव्यम्, अस्वादव्यञ्जकत्वस्योभयत्रापि सत्त्वेन काव्यं पठितं, बुद्धमिति व्यवहारदर्शनेन शब्दार्थयुगलस्य काव्यत्वं सुघटमित्याशयः। सदोषेऽतिव्याप्तिवारणायादोषावित्यु-पात्तम्। काव्यत्वविघटका ये च्युतसंस्कारादयो दोषाः तद्रहिताविति। सगुणाविति निर्गुणेऽतिव्याप्तिवारणाय गृहीतम्। माधुर्यौजःप्रसादाख्या ये गुणास्तत्सहितावित्यर्थः। निरलङ्कारेऽतिव्याप्तेर्वारणायानलङ्कृतीति। इह नञः अल्पार्थकत्वेनास्फुटार्थकत्वम्। तेनैतदुक्तं भवति यत्सर्वत्र सालङ्कारौ शब्दार्थौ काव्यं कुत्रचित्स्फुटालङ्काररहितेऽपि न काव्यत्वहानिरित्यर्थः।
    कान्तासम्मितस्य काव्यपदार्थस्य किं लक्षणमिति जिज्ञासायां विद्यानाथः स्वकीये प्रतापरुद्रीयेऽवदत् - “गुणालङ्कारसहितौ शब्दार्थौ दोषविवर्जितौ।
गद्यपद्योभयमयं काव्यं काव्यविदो विदुः।।” इति।
माधुर्यादिगुणैः सहितौ, उपमाद्यर्थालङ्कारैः अनुप्रासादिशब्दालङ्कारैः वा सहितौ दोषरहितौ शब्दार्थौ काव्यमिति कथ्यते। तच्च काव्यं गद्यरूपं पद्यरूपं गद्यपद्यरूपं वा भवेत्। एवञ्च कारिकोक्तप्रकारेण गुणालङ्कारादिविशिष्टौ शब्दार्थौ काव्यम्।
    कवितार्किकसार्वभौमोत्कलकलिङ्गराजमहामात्यः श्रीविश्वनाथकविराजः मम्मट-काव्यलक्षणखण्डनपुरस्सरमन्येषामप्याचार्याणां काव्यलक्षणं खण्डयित्वा स्वकृतं काव्यलक्षणं प्रतिपादयामास।मम्मटोक्तकाव्यलक्षणस्याव्याप्तिदोषं दर्शयित्वा दर्पणकारः मम्मटं खण्डयति। हनुमन्नाटके वर्णिते श्लोके विधेयाविमर्शदोषो विद्यते। “स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः” इत्यत्र “वृथोच्छूनैः” इत्यस्मिन्नंशे वृथात्वं विधेयं तच्च समासे गुणीभूतत्वादनुवाद्यत्वप्रतीतिकृदिति पदगतो विधेयाविमर्शः। विधेयस्य वाक्यार्थे प्रधानस्याविमर्शः अप्रधानतया निर्द्देशो विधेयाविमर्शः। परन्तु श्लोकस्यास्य व्यङ्ग्यार्थनिष्पाद्यमानत्वेनोत्तमकाव्यता स्वीकृता। अतः मम्मटोक्तदोषविद्यमानेऽपि काव्यत्वाङ्गीकारात् लक्षणस्यास्य अव्याप्तिदोषो जातः।
    किञ्च शब्दार्थयोः सगुणत्वविशेषणमनुपपन्नमिति विश्वनाथमतिः। “गुणा हि रसैकधर्माः” इति मम्मटेन एवोक्तम्। “ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः” इत्यादि तदीयं नय एवात्र प्रमाणम्। गुणानां रसैकधर्मत्वात्तेषां शब्दार्थयोर्विद्यमानत्व-मयुक्तम्। यथा पटो कदापि घटत्वविशिष्टो न भवति।
    एवं मम्मटप्रस्तुतम् “अनलङ्कृती पुनः क्वापि” इत्यपि विश्वनाथेनापाकृतम्। सर्वत्र सालङ्कारो क्वचित्तु अस्फुटालङ्कारावपि शब्दार्थौ काव्यमिति तदर्थः। कटककुण्डलादयो यथा देहस्योत्कर्षतां विदधति तथैवालङ्कारोऽपि। अत एव अलङ्काराः काव्यस्योत्कर्षमात्राधायकत्वं न तु स्वरूपमात्राधायकत्वम्। एवं “वक्रोक्तिः काव्यजीवितम्” इति वक्रोक्तिजीवितकारोक्तमपि न सङ्गच्छते, वक्रोक्तेरलङ्कारान्तर्गतत्वात्।
    तेनैव नयेन विद्यानाथस्य लक्षणं निराकृतं भविष्यति। अलङ्काराणां काव्यस्योत्कर्षमात्राधायकत्वात्। वामनेनोक्तलक्षणस्यापि तथैव निराकरणं भविष्यति।
    अपि च वामनेनोदितं - “रीतिरात्मा काव्यस्य” इति। तदयुक्तम्। रीतेः गुणाभिव्यञ्जकशब्दविन्यासरूपत्वात्। तस्य च अवयवसंस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात्।
    एवमन्यैः आचार्यैः निरूपितस्य लक्षणस्य प्रमेयविरोधं दर्शयित्वा स्वलक्षणं न्यगादि - “वाक्यं रसात्मकं काव्यम्”6 इति। रसात्मकं वाक्यं काव्यमित्यन्वयः। रसपदेनासंलक्ष्यक्रमभेदानां सर्वेषां परिग्रहः। तथा च व्यञ्जकतासम्बन्धेन रसादिमद्वाक्यं काव्यमिति काव्यसामान्यलक्षणम्।
    पण्डितराजेन जगन्नाथेन लक्षणमित्थं निरूपितम् - “रमणीयार्थप्रतिपादकः शब्दः काव्यम्” इति। रमणीयता च लोकोत्तरः आनन्दः। एवञ्च लोकोत्तरचमत्कारजनकभावनाविषयार्थप्रतिपादकः शब्दः काव्यमिति जगन्नाथस्याभिप्रायः। अपि च ये शब्दार्थौ काव्यमित्यभिप्रयन्ति तान्निराकरोति जगन्नाथः। तद्यथा - काव्यं श्रुतमर्थो न ज्ञात इत्यादिविश्वजनीनव्यवहारस्य शब्दविशेषाद् एव काव्यपदार्थस्य प्रतिपत्तिर्भवतीति। पण्डितराजो दर्पणकारमप्याकरोति। वस्त्वलङ्कारमुख्यानां काव्यानामकाव्यतापत्तेः। न चेष्टापत्तिः, महाकविसम्प्रदायस्याकुलीभावप्रसङ्गात्। लक्ष्यानुसारेण हि लक्षणव्यवस्था, न तु वैपरीत्येन। वर्णितानि च महाकविभिर्जलप्रवाहवेगनिपतनोत्पनभ्रमणानि कपिबालादिविलसितानि च। न च तत्रापि यथा कथञ्चित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम्, ईदृशरसस्पर्शस्य “गौश्चलति”, “मृगो धावति” इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात्। रस्यत इति योगस्य तु तदाभासादिमात्र एवाभ्युपगमात्।
    एवञ्च सर्वाणि लक्षणानि समालोच्य एतत् फलितं भवति यत् केचन आचार्याः “शब्दार्थौ काव्यम्” इति अभिप्रयन्ति,केचनाचार्याः “शब्द एव काव्यम्” इति मतं पोषयन्ति। अत्र ये “शब्दः काव्यम्” पक्षमङ्गीकुर्वन्ति तेषां मतान्यसमीचिनानि। शब्दतः अर्थतः च अर्थादुभयतः व्यङ्ग्यार्थनिष्पाद्यमानत्वात्। अपि च जगन्नाथः यथोक्तवान् यत् काव्यं श्रुतमर्थो न ज्ञात इत्यत्र शब्दविशेषाद् एव प्रतिपत्तेः। तथैव काव्यं बुद्धम् इत्यत्र अर्थः एव बुध्यते न तु शब्दः। इत्थमुभयविधं प्रयोगदर्शनात् शब्दार्थौ काव्यमिति फलति। अत एव वेदत्वादेरुभयवृत्तित्वप्रतिपादकं “तदधीते तद्वेद”7 इति पाणिनीयसूत्रस्थं “किमर्थमुभावप्यर्थौ निर्द्दिश्यते, न योऽधीते वेत्त्यप्यसौ। यस्तु वेत्त्यधीतेऽप्यसौ, नेतरयोरावश्यकः समावेशः। भवति हि कश्चित्संपाठं पठति न वेत्ति, तथा कश्चिद्वेत्ति न च संपाठं पठति” इति महाभाष्यं सङ्गच्छते।
    ननु जगन्नाथेन यदुक्तं - “रमणीयार्थप्रतिपादकः शब्दः काव्यम्” इति। तदित्थं वक्तुमपि शक्यते यत् - शब्दप्रतिपाद्यो रमणीयार्थः काव्यम् इति। तेन च शब्दार्थौ काव्यमिति गम्यते।
    आस्वादोद्बोधकत्वमेव काव्यत्वप्रयोजकम् इति सर्वसम्मतम्। तच्च पुनः शब्देऽर्थे चाविशिष्टम्। तत्रापि रसोद्बोधकत्वाङ्गीकारात्। एतदपि शब्दार्थौ काव्यमिति मतं दृढीकरोति समर्थयति वा।
    ननु कविकर्म काव्यमिति खलु प्राचीनोक्तिः। न तु कविना अर्थः लिख्यते अपि तु शब्द एव। सत्यं, उपचारात् प्राचीनैः शब्दः उक्तः। परन्तु अर्थमपि अङ्गीकुर्वन्ति। दृश्यकाव्यस्य काव्यत्वाङ्गीकारात्। अर्थेऽपि दृश्यकाव्य इव काव्यत्वम्। अतः शब्दार्थौ काव्यमित्येव सिद्धान्तः।
    अन्धकारे गन्तुं यथा एकः प्रदीपः आवश्यकः न तु नानाप्रदीपाः। तद्वत्काव्यस्वरूपलक्षणबोधार्थं निर्दुष्टलक्षणमस्ति वेति जिज्ञासायामुच्यतेऽस्तीति। तल्लक्षणं तावत् लक्ष्मीनारायणभट्टैः स्वग्रन्थे साहित्यवल्लर्यां प्रतिपादितमस्ति। तैः प्रस्तुतं लक्षणं तावत् -
रमणीयौ शब्दार्थौ काव्यम्8 इति।
रमणीयत्वं लोकोत्तरचमत्कारजनकत्वमर्थात् लोकोत्तरानन्दजनकत्वम्। केवलमानन्दजनकत्वं न भवति अन्यतोऽपि तत्सम्भवात्। यथा मिष्टान्नखादनेन आनन्दस्तु जायते परन्तु तत्र लोकोत्तरत्वं नास्ति। ननु तल्लोकोत्तरानन्दः कस्माद्भवति - अलङ्काराद्वा। तन्न, आभरणस्थानीयत्वात्। गुणतोऽपि न सम्भवति। यतोऽहि गुणः शौर्यादिस्थानीयः। अवयवसंस्थानरूपविशेषरूपत्वात् पदविन्यासरूपात् मार्गादपि न भवति। कुतो भवतीति पुनर्विचारे कृते सति श्रोतृगतरत्यदिव्यञ्जकत्वमन्तरेण नान्यः कोऽप्यंशः प्रतीतिपथमागच्छति। तत्र च तद्रत्यादिः एव रस इति स्थिते व्यञ्जकतासम्बन्धेन तद्वत्त्वमेव काव्यस्यासाधारणो धर्मः। रसे सत्येव काव्यं जीवति इति एव सर्वेषामनुभवः। तत्र रसध्वनिस्थले शब्दार्थयोः व्यञ्जकत्वेन। व्यञ्जकत्वं च शब्दे तत्तद्रसानुकूलवर्णघटितत्वेन, अर्थे पुनः विभावादिरूपत्वेन। इदञ्च भवति निर्दुष्टं लक्षणम्। वस्तुतस्तु लक्षणमिदं भामहाचार्यस्य सुपरिष्कृतं लक्षणं भवति। ननु भामहाचार्येण तु लोकोत्तरचमत्कारजनकत्वं शब्दार्थौ काव्यमिति नोक्तम्, इत्युच्यते चेन्न, तत्स्वलक्षणे प्रतिपादितमेव भामहाचार्येण। ननु शब्दार्थौ नित्यसम्बद्धौ एव। अथापि कुतः सहितौ इत्युच्यते। सत्यं, शब्दार्थौ प्रलयकालेऽपि नित्यसम्बद्धौ। इह तयोः प्रतिपाद्यप्रतिपादकभावः कारणम्। तज्ज्ञात्वापि सहितौ इति अन्यदेव तात्पर्यं विवक्षयति इति तु सिद्ध्यति। किं नु स्यात्। लोकोत्तरचमत्कारकारकधर्मेण संयुक्तौ स्वीकुरु इत्यस्मद्गुरूणां मतं भवतीति शम्।।।

No comments:

Post a Comment